SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः श्रीमुनिसुव्रतस्वामिचरितम् सर्ग: नवमो भक कियत्यपि गते काले, तयोरजनि नन्दनः। पृथ्वीपतिरिति ख्यातः, पृथ्वीव विपुलाशयः॥११५॥ विपेदे प्रियया सार्क, हरिरर्जितपातकः । अलब्ध दुर्गतिमपि, दत्तामिव सुधाभुजा ।। ११६ ॥ तयोः पृथ्वीपतिः सूनुः, पृथ्वीपतिरजायत । स शशास महीमेक-नगरीमिव लीलया ॥ ११७॥ महागिरिःसुतस्तस्य, नाम्ना जितमहागिरिः। गिरिस्थिरः स्मराऽऽवेशाऽ-विवशो वशिनां मतः॥११८ ॥ सुते हिमगिरौ राज्यं, क्रमान्यस्य कृतव्रतः।महागिरिमहीशोऽपि, तपस्तत्त्वा शिवं ययौ ॥ ११९ ॥ ततो हिमगिरीराजा, राज्ये वमुगिरि सुतम् । अभिषिच्य प्रवव्राज, वव्राजाऽप्यपुनर्भवम् ।। १२० ॥ राज्ये सुतं गिरिंन्यस्य, ततो वसुगिरीनृपः। आत्मनाऽऽदाय साधुत्वं, क्षीणकर्मा यया शिवम् ।।१२१॥ राज्ये मित्रगिरि न्यस्य, नन्दनं गिरिरप्यथ । उपादत्त परिव्रज्यां, लेभे च त्रिदिवश्रियम् ॥ १२२ ॥ असङ्ख्याताः क्रमेणैवं, हरिवंशे महीश्वराः । ययुः केचन निर्वाणं, दिवं केचन भेजिरे ॥ १२३ ॥ इतश्च भरते पुत्र-पवित्रे सच्चरित्रतः । समस्ति मगधो देश, आदेशः सर्वसम्पदाम् ॥ १२४ ॥ यत्रार्हज्जैत्रवादित्र-ध्वानप्रतिहता इव । सहसैव विलीयन्ते, विरुद्धार्थगिरोङ्गिनाम् ॥ १२५॥ तत्र भाति समस्तश्री-गृहं राजगृहं पुरम् । सतेजसा सुवृत्तानां, यन्मुक्तानां महाकरः ॥ १२६ ॥ बालिका अपि खेलन्ति, यत्राहद्गुणगुम्फितैः । नवच्छन्दोमनोहारि-रासकैः राजवर्मनि ॥ १२७॥ प्रियंवदः सदाक्षिण्यः, स्थैर्यगाम्भीर्यवन्धुरः। यत्र लोकः कलङ्केन, विकलः सकलः श्रिया ॥ १२८ ॥ मित्रो नीतिसरोजिन्याः, सुमित्रो हरिवंशभूः । सुमित्रोभूपतिस्तत्रा-ऽमित्रश्रीग्रहणाग्रणीः ॥१२९॥ हरिवंशोत्पणि ॥६३॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy