SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०४ ॥ १०५ ॥ ततो राज्यार्हमपरं नरं प्रकृतयस्ततः । सदर्थमिव वागीशाः, प्रावर्त्तत निरीक्षितुम् ॥ १०० ॥ देवो देवविभूत्याऽथ, जनान्विस्मापयन्नलम् । एवमूचे प्रभापुञ्ज - पूर्णाकाशमवस्थितः ॥ १०१ ॥ अहो ! शृणुत निःशेषा !, मद्वचो राज्यचिन्तकाः । । निरङ्गजो मृतो राजा, तत एष नृपोऽस्तु वः ॥ १०२ ॥ युष्मत्पुण्यैरिवागण्यैः, प्रणुन्नोऽहं सुराऽऽलयात् । हरिवर्षादिदं क्षेत्र - मगमं स्वर्गवच्छ्रिया ॥ १०३ ॥ तत्राऽद्राक्षं हरिं नाम, राज्याहं युग्मरूपिणम् । निःसमानशुभोदर्क - शुचिकर्मपरिवृतम् ॥ उत्क्षिप्य युगपत्तस्मा - दुभाविह समानयम् । नरो हरिर्वधूश्वास्य, हरिणीति विचिन्त्यताम् ॥ आनीताश्च मया भोज्ये, दशधा कल्पपादपाः । भवत्क्षेत्रभवं भोज्य- मेताभ्यां न हि रोचते ॥ शङ्खश्रीवत्सकुलिशाऽङ्कुशनौमत्स्यलाञ्छनः । छत्राकारशिरो रम्य - ऊर्णारोमसखाननः ।। राजहंसगतिः स्मेर - पद्मनेत्रः प्रियंवदः । तदय वो भवत्वद्य, महीपालो महाबलः ।। १०८ ।। युग्मम् ॥ पशुपक्षिभवं मांस, कल्पद्रुमफलाविऽऽलम् । मद्यश्च देय आहार, एतयोर्युग्मरूपिणोः ॥ १०९ ॥ एवमस्त्विति तेऽप्युक्त्वा, तं प्रणम्य सुधाभुजम् । रथे मिथुनमारोप्य, राजवेश्म समानयत् ॥ ११० ॥ तस्मिन्नेवाह्नि चाऽह्वाय, ततो राजमहत्तराः । अभ्यषिञ्चन्नवं राज्ये, मङ्गलोद्वारपूर्वकम् ॥ ह्रखमायुःस्थितेश्चक्रे, तयोत्रिदशशक्तितः । धनुः शतश्च तुङ्गत्वे, प्रीतोऽगात्रिदशालये ॥ तीर्थे शीतलनाथस्य, राजा हरिरजायत । ततःप्रभृति तन्नाम्ना, हरिवंशः प्रशस्यते ॥ स्वीचकार हरी राजा, महीं सागरमेखलाम् । उपयेमे सुता राज्ञां, राज्यश्रिय इवापराः ॥ १११ ॥ ११२ ॥ ११३ ॥ ११४ ॥ For Private and Personal Use Only १०६ ॥ १०७ ।। Acharya Shri Kailassagarsuri Gyanmandir -oxoxoxoxoxoxoxoxoxoxo नवमो मवः हरिवंशल
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy