SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ******* www.kobatirth.org शीर्णजीर्णाऽम्बरधरो, धूलीधूसरमूर्द्धजः । स्थूलरोमा लुठत्केशः, क्षुधाक्षामोदरो ज्वरी ॥ ७० ॥ उत्तालैः प्रसरत्तालै- बलैस्तुमुलमालिभिः । आवृतो वनमालेति, जल्पको नगरेऽभ्रमत् ॥ ७१ ॥ युग्मम् ॥ रूपलुब्धेन शक्रेणाs - पहृता वनमालिका । अथवा बलभद्रेणाऽपहृता नामविभ्रमात् ॥ ७२ ॥ इति प्रविलपन्पुर्यां चत्वरे चत्वरेऽनिशम् । स कालमतिचक्राम वराको रङ्कत्रद्धमन् ॥ ७३ ॥ अनेकः खिगकैर्डिम्भै-र्वराकैश्व परावृतः । कुविन्दको भ्रमन्नाऽऽप, कदाचिद्राजमन्दिरम् ॥ ७४ ॥ केलीकिलेन निखिल - राजलोकेन कौतुकात् । पैशाचकीभिर्निर्माल्य-मालिकाभिरवेश्यत ॥ ७५ ॥ युग्मम् ॥ अनुगस्तस्य लोकाना - मुत्तालं तालिकारवः। उल्लासतरां हास्य नाट्यनान्दीसहोदरः ॥ ७६ ॥ किमेतदिति जिज्ञासुः सहितो वनमालया । निजवेश्माऽङ्गणं प्राप, सुमुखस्तन्मुखेक्षणः ॥ ७७ ॥ धूलिभिस्तप्यमानश्च हस्यमानं पदे पदे । निर्माल्यैर्वेष्ट्यमानश्च खेद्यमानं विटैर्नरैः ॥ ७८ ॥ हा ! पर्वेन्दुमुखि ! स्मेर लोचने । लोकलोभने ! । हा ! मत्प्राणमहारत्न - रक्षारल करण्डके ! ॥ ७९ ॥ वनमाले ! वनमाले ! एवंरूपप्रलापिनम् । दृष्ट्वा नरेन्द्रदेव्यौ नु, बिभरांचक्रतुः खिदम् ॥ ८० ॥ युग्मम् ॥ स्वयं गतदयं कर्म्म, हा! हाऽस्माभिर्विनिर्मितम् । यदसौ पातितो दुःखे, निरागा अपि रागतः ॥ ८१ ॥ अस्मत्तो हन्त ! पापिभ्यः, कोऽपि पापी न विद्यते । सीमन्तकादपि गुरु-र्न परो नारकालयः ॥ ८२ ॥ दुःशीला वयमेव स्मः, सुशीलजनगर्हिताः । जीवन्मृतः कृतो यस्मादेष वेषविडम्बितः ॥ ८३ ॥ विषयग्रहाम्पट्ये, क विवेकः प्रसर्पति। मन्दिरे तु दरिद्रस्य, प्रदीपो दीप्यते कियत् ? ॥ ८४ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नवमो भवः हरिवंशोत्पत्तिः
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy