SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमो भक शीलवतं विशुद्धं यत् , नवगुप्तिनियन्त्रितम् । यत्पाल्यं निरतिचारं, स्थानं तबादशं भवेत् ॥ १०७४ ।। त्रयोदशमिदं स्थानं, क्षणे क्षणे लवे लवे । शुभध्यानस्य करणं, प्रमादपरिवर्जनात् ॥ १०७५ ।। तपो विधीयते शक्त्या, बाह्याऽभ्यन्तरभेदतः । असमाधिपरित्यागात् , स्थानमुक्तं चतुर्दशम् ॥१०७६ ॥ त्यागोऽतिथिसंविभागः, शुद्धानोदकदानतः । तपखिना स्वया शक्त्या, स्थानं पञ्चदशं तु तत् ।। १०७७॥ वैयावृत्त्यं तु गच्छस्य, बालादिदशभेदतः । भक्तिः विश्रामणायैः स्यात् , पोडशस्थानकं किल ।। १०७८ ॥ समाधिः सर्वलोकस्य, पीडादिकनिवारणात् । मनःसमाधिजननं, स्थानं सप्तदशं भवेत् ॥ १०७९ ॥ अपूर्वज्ञानग्रहणात् , सूत्रार्थोभयभेदतः । अष्टादशमिदं स्थानं, सर्वज्ञैः परिभाषितम् ॥ १०८० ॥ श्रुतभक्तिः पुस्तकानां, लेखनादिककर्मतः । व्याख्याव्याख्यापनैरेको-नविशं स्थानकं भवेत् ॥ १०८१ ॥ प्रभावना प्रवचन-विद्यावादनिमित्ततः । शासनस्योन्नतेर्या स्यात् , स्थानं विंशतिसज्ञिकम् ॥ १०८२॥ एकैकं तीर्थकृन्नाम - कर्मबन्धस्य कारणम् । सर्वैराराधितैरेभि-स्तद् बबन्ध सः संयमी ॥ १०८३॥ सुरज्येष्ठो महासत्त्वो, ज्ञात्वा पर्यन्तमात्मनः । प्रतिलिख्य क्षमापीठ - मुपाविक्षद्यथाविधि ॥ १०८४ ॥ कृत्वा मनसि भावेन, जिनेन्द्रं प्रतिमामिव । असावाराधनां धीरः, स्वयं विहितवानिति ॥ १०८५ ॥ अकालविनयाधैर्यो, ज्ञानाचारे स्वरूपिणि । अतिचारः कृतस्तत्र, स्यान्मिथ्यादुष्कृतं मम ॥ १०८६ ॥ अष्टधा दर्शनाचारे, भेदैनिःशङ्कितादिभिः । योऽतिचारः कृतस्तत्र, भूयान्मे दुष्कृतं ननु ॥ १०८७॥ समितिभिः पञ्चभिश्च, गुप्तिभिस्तिमृभिर्वृतम् । पालितं यन्न चारित्रं, तत्र मे दुष्कृतं वृथा ॥ १०८८ ।। For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy