SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनि - सुव्रतस्वामि चरितम् ॥ ५७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एत्य केवलिनः पार्श्वे, व्रतं जगृहतुस्तराम् । पालयामासतुः शुद्धं, जग्मतुस्त्रिदशालयम् ।। १०५९ ।। अर्हद्भक्तेः कथामेनां श्रुत्वा भावविवर्द्धनीम् । तनयो भूपतिः प्राप, निजावासमसम्मदः ॥ १०६० ॥ अर्हतिं सदा कुर्वन् कारयन् प्रतिवासरम् । मृत्वोत्पन्नस्स सौधर्मे, तस्मान्निर्वाणमाप्स्यति ।। १०६१ ॥ सुरज्येष्ठो महासत्त्वो, विहरन्पावनक्रियः । अर्होत्र नामकर्मा - ऽवनादिति शुभाशयः ।। १०६२ ॥ तथा हि-अर्हतां प्रतिमाऽर्चाभि-रर्हतां स्तवनादिभिः । एकमर्जितवान् स्थान- मवर्णादिनिवारणैः ॥ १०६३॥ सिद्धस्थानेषु सिद्धानामुत्सवैः प्रतिजागरैः । एकत्रिंशत्सिद्धगुण - कीर्तनैश्च द्वितीयकम् ।। १०६४ ।। प्रवचनोन्नतेः सम्यक्, ग्लानबालादिसाधुषु । अनुग्रहमनोज्ञायाः, स्थानमेतत्तृतीयकम् ।। १०६५ ॥ गुरूणाञ्जलिर्बद्धाद्वत्राहारादिदानतः । असमाधिनिषेधेन स्थानमेतत्तुरीयकम् ।। १०६६ ।। स्थविरा द्विविधा प्रोक्ताः, वयसा सुगुणैरपि । तेषां भक्तिविधानेन, पञ्चमं स्थानकं विदुः ॥ १०६७ ॥ बहुश्रुतानां ग्रन्थार्थ- वेदिनां तत्त्वशालिनाम् । प्रासुकान्नादिदानेन षष्ठं स्थानमुदीरितम् ।। १०६८ ॥ तपखिनां सदोत्कृष्ट - तपः कर्मस्थिरात्मनाम् । विश्रामणादिवात्सल्यात्, सप्तमं स्थानमिष्यते ।। १०६९ ॥ ज्ञानोपयोगः सातत्यं, द्वादशाङ्गागमस्य च । सूत्रार्थोभयभेदेन, स्थानं ननु तदष्टमम् ॥ १०७० ॥ दर्शनं रहितं शङ्काद्यैः, स्थैर्यादिगुणान्वितैः । शमादिलक्षणं यत्तु, स्थानकं नवमं मतम् ॥ १०७१ ॥ विनयो यश्चतुर्भेदो, ज्ञानदर्शनतोऽपि च । चारित्रादुपचाराच्च, स्थानं तद्दशमं मतम् ।। १०७२ ।। आवश्यकं भवेत् स्थान - मेकादशमिदं पुनः । इच्छादिदशधा या च, सामाचारी जिनोदिता ॥ १०७३ | For Private and Personal Use Only द्वितीयः सर्गः सप्तमो भक ॥ ५७ ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy