SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra XXXX www.kobatirth.org आनीय पुष्पसङ्घातं, फलजालविकखरम् । अपूजयजिनं श्रेष्ठी, यथास्थिति जनाः परे ॥ १०४४ ॥ साधर्मिकाणां वात्सल्य - मथ कृत्वा यथाविधि । पारणमेकभक्तेन, चक्रे कुलधरात्मजा ।। १०४५ ॥ ततः शुभगुरूपान्ते, श्रेष्ठिनोऽनुज्ञया व्रतम् । अग्रहीदायुषो नास्ति, प्रव्रज्यायाः परं फलम् ।। १०४६ ॥ विधाय विधिवत्प्राज्यं, चारित्रमतिपावनम् । सौधर्मे नाकसजज्ञे, तस्माद्राह्मणपुत्रिका ।। १०४७ ॥ क्रमशो माणिभद्रोऽपि, स्तोकायुस्त्रिदशोऽजनि । तस्माद्बभूव मनुज- स्ततो नागसुरोऽजनि ।। १०४८ ॥ मिथ्यात्वदुष्टया पूर्व - स्थितया पितृवेश्मनि । यदर्जितमयं देवि !, तस्माद्वाल्ये सुखं न ते ।। १०४९ ॥ यत्त्वया तीर्थनाथस्योपरि छत्रत्रयं वरम् । कारितं सहसञ्चारी, तेनाऽऽरामस्तवाऽभवत् ।। १०५० ।। तुष्टो नागकुमारोऽपि यत्तवाऽऽरामशोभिनि ! । तत्पूर्वजनकत्वेन, प्रेम कोटि भवानुगम् ॥ १०५१ ॥ यत्त्वया जिन वित्तानि, वर्द्धितानि दिने दिने । तत्ते भोगपरा भोगाः, सत्कृतं नान्यथा भवेत् ॥ १०५२ ॥ श्रुत्वेति केवलिप्रोक्तम्, जातिस्मरणमाप सा । उवाच तव वाक्येन, स्मारिताऽर्थं पुरातनम् ।। १०५३ ॥ यथाऽनुभूतं सर्वज्ञ !, चरितं कथितं त्वया । अधिकं केवलज्ञानान्नास्ति ज्ञानं महीतले ।। १०५४ ॥ स्वामिन् ! युष्मद्वचः श्रुत्वा, विरक्तं भवतो मनः । चारित्रं प्राप्तुमिच्छामि, यौष्माकचरणान्तिके ।। १०५५ ॥ इदं देवीवचः श्रुत्वा, जगाद जगतीश्वरः । देवीव भवतो नाथ !, विरक्तोऽस्मि स्मिताननः ।। १०५६ ॥ यावत्कुमारे राज्यस्य, भारं न्यस्यामि सन्मते ! । तावत्त्वयात्र च स्थेयम्, प्रतिबोधपरा जिनाः ।। १०५७ ॥ ततो गत्वा नृपो देव्या, साकमारामनन्दनम् । अभिषिच्य न्यधाद्राज्ये, धर्मेच्छुः को विलम्बतेः ॥ १०५८। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सप्तमो भवः आरामशोमा कथाः
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy