SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुव्रतस्वामिचरितम् ।। ५६ ।। 191981 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सोsप्युवाच सुते देवा - ssरामः शुष्क इहाऽजनि । तन्निमित्तमभूत्खेदः, खेदः स्वार्थक्षये सखा ।। १०२९ ।। अथोचे श्रेष्ठिनं पुत्री, शीलं मे यदि निर्मलम् । ततः पूर्ववदाऽऽरामो, भूयात्फलसमाकुलः ॥ १०३० ॥ अन्यथा निखिलाहार - परिहारः कृतो मया । कायोत्सर्ग करिष्यामि, भविष्यामि समाहिता ।। १०३१ ॥ एवं सा निश्चयं कृत्वा, युद्धाम्बरधरा सती । गत्वा देवगृहं नत्वा देवं देवेन्द्रवन्दितम् ॥। १०३२ ॥ कायोत्सर्ग चकारैषा, सर्वयोषाशिरोमणिः । वारंवारं स्फुरद्भाव प्रकाराऽवकरोज्झिता ॥ १०३३ ।। त्रिभिर्विशेषकम् ।। तृतीयदिनयामिन्यां, शासनस्वामिनी पुरः । तस्याः सत्त्वात्समाकृष्टा, स्फुटाऽभूदद्भुतद्युतिः ।। १०३४ ॥ तुष्टाऽस्मि सुभगे ! तुभ्यं, याचस्खेप्सितमात्मनः । कायोत्सर्ग विमुञ्चायुं, सत्त्वतुष्टाः सुधाभुजः । १०३५ ॥ पारयित्वा तथा कायोत्सर्गमूचे वचः शुचि । तथा कुरु यथाऽऽरामः, पूर्ववत्फलपेशलः ॥ १०३६ ॥ एवमुक्त्वा गता देवी, प्रत्याख्यानसुरी चिरम् । सा प्रगे कथयामास तत्सर्वं श्रेष्ठिनः पुरः ॥ १०३७ ॥ श्रेष्ठी निरीक्षयामास, च्छन्नमाप्तस्वपुरुषात् । स गत्वाऽऽगत्य चावादी -दपूर्वः कोऽपि सोऽभवत् ।। १०३८ ॥ सुते ! मनोरथाः पूर्णाः सृष्टेरासंहृतेरहम्। त्वयैव पुत्रवानस्मि, किं पुत्रैर्धर्महन्तृभिः ? ।। १०३९ ॥ उक्त्वेति माणिभद्रोऽथ, तूर्यघोषपुरस्सरम् । साकं सकलसङ्केन, बरारामं समासदत् ।। १०४० ॥ आरामं पुष्पितं दृष्ट्वा, पुष्पैः सन्ध्याभ्रविभ्रमैः । पुत्र्याः कुलधरस्योच्चैः श्लाघाद्वैतं जनोऽवदत् ॥ १०४१ ॥ * ॥ ५६ ॥ धन्यस्तीर्थकृतां धर्मो, धन्येयं कुलवालिका । धन्यमस्या महच्छीलं येनाऽऽरामो मनोहरः ।। १०४२ ।। एवं बन्दिभिरुद्दाम - नवैः काव्यैः प्रपश्चितम् । अर्थे प्रत्यक्षदृष्टे हि, को विवादपरायणः १ ।। १०४३ ॥ T For Private and Personal Use Only द्वितीयः सर्गः सप्तमो भवः आरामशोभाकथा
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy