SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महेभ्यो देवतागारे, द्रव्यव्ययपुरस्सरम् । नाटकानि महर्षीणां, प्रतिपर्व व्यधापयत् ॥१.१४॥ महापद्म इव शेषे, पुरे रथमहोत्सवम् । चक्रे विमोचयन् वित्तदान-गुप्तिगतान् जनान् ॥ १०१५॥ साधर्मिकाणां वात्सल्य - महर्दिवमकारयत् । गुप्तिस्थान् मोचयामास, नास्ति दानसमं शुभम् ॥१०१६॥ त्रिकालं कुसुमैरेष, जिनेन्द्रं पर्यपूजयत् । भक्तिं चकार साधूनां, बखानशयनादिभिः॥१.१७॥ साऽपि कौलधरी पुत्री, श्रेष्ठिवजिनमर्चयत् । प्रत्यहं खस्तिकांश्चक्रे, शिवौकखस्तिकोपमान् ॥ १०१८ ॥ विक्रीय पत्रपूगादि, भ्रान्त्वा सुबहु पत्तने । किंबहुना ? देवताखं, शुभभावादवीवृधत् ।। १०१९॥ खनेपथ्येन सौवर्ण-छत्रत्रयमकारयत् । उपरिष्टाजिनेन्द्रस्य, त्रिलोकैश्वर्यसूचकम् ।। १०२० ।। तस्मिन् जिनेन्द्रसद्वक्त्रं , वीक्ष्य तारावलीभ्रमम् । विश्रामधाम सुदृशां, मुक्तोचूलमचीकरत् ॥१०२१॥ यद्यत्प्रामोति सा वित्तं, तत्तछत्रे न्यवेशयत् । औपम्यमस्यामेवाऽस्या, वारिधेर्वारिधाविव ।।१०२२॥ माणिभद्रो वराराम, देवार्चायामकारयत् । तत्र गत्वा स्वयं पौष्प-मानिन्ये परमार्हतः॥ १०२३ ।। स ग्रन्थ्य कुसुमान्युच्चैः पूजयामास तीर्थपम् । तीर्थभर्तुः किङ्करत्वं, चक्रित्वमुपतिष्ठते ॥१०२४ ॥ केनचिद्धेतुनाऽन्येद्यु-दृष्ट्वाऽऽरामं विपुष्पकम् । इभ्योऽभ्यपूर्यताऽस्तोकं, शोकेन हृदयस्थलम् ।। १०२५ ॥ देव्या कयाचन क्रोधान्-मिथ्यात्वग्रहिलाशयात् । संशोषितोममाऽधामः कोपः पापवतां गृहम्॥१०२६॥ अथवा तीर्थकद्भर्तुरभक्तिः कापि दर्शिता । येनायमद्भुताऽधामो, बिरामः पुष्पसम्पदाम् ।। १०२७॥ इति ध्यानपराधीनं, माणिभद्रं निरीक्ष्य सा । तात! चिन्तातुरः कसा-चिन्ताभागप्रयच्छ मे ॥ १०२८ ।। सप्तमो भवः आरामशोभाकथा For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy