________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिसुव्रतस्वामिचरितम् ।
द्वितीयः सगः
सप्तमो भवः
PXOXOXOXOXOXOXOKO-KOK
ध्यात्वेति धैर्यमालम्ब्य, प्रविश्योजयिनी पुरीम् । पुरुष कञ्चन प्रेक्ष्य, भद्राकारमनोहरम् ॥१०००॥ पतित्वा पादयोस्तस्य, बाष्पपूर्णविलोचना । उवाच तात! चम्पाया-मिभ्यः कुलधरो वणिक् ॥१००१२॥
॥ त्रिभिर्विशेषकम् ।। तस्याऽहमस्मि पुत्रीयं, गौडाख्यं विषयं प्रति । चलिता सह नाथेन, स नाथः कापि मे गतः ॥१००२॥ खपत्युर्विषये गन्तुं, न शक्ता खां पुरीमपि । त्वं तु तातसमो दृष्टो, मां वीकुरु सुतात्वतः ॥१००३।। अथैष वचनैरस्था, रञ्जितोगददञ्जसा । तिष्ठ पुत्रि! ममागारे, साक्षात्कुलधरस्तव ॥१००४॥ इत्युक्त्वा माणिभद्रेण, सा मुक्ता मन्दिरे निजे । निजाङ्गजानिर्विशेष -माचचाराऽथ सोऽनिशम् ।।१००५॥ परीक्षितुं वचस्तस्या, माणिभद्रेण सादरम् । अप्रेष्यततरां लेख -वाहकः कार्यकारकः ॥ १००६ ॥ तेन गत्वा पुरी चम्पा, पृष्टः कुलधरो वणिक् । कति पुत्राः कति पुग्यः सोऽप्यूचे न हि नन्दनाः ॥१००७।। इहैव सन्ति मत्पुत्र्यः, सप्तैव परिणायिताः । अष्टमी गौडविषये, प्रेषिता सधवा पुनः ॥ १००८ ।। किमर्थं पृच्छति भवान् , सोऽप्यवादीदिदं ततः। नगर्याः प्रेषितो माणि- भद्रेण भवदन्तिके ॥१००९॥ ववाहिकं विधातुं वा-मिच्छा तस्य प्रबर्द्धते । सोऽवक् विवाहनाम्नाऽपि, लज्जासजोऽस्म्यहं सखे ॥१०१०॥ ततस्तेन समागत्य, माणिभद्राय सर्वतः । तदुक्तं कथयामास, तद्वचः सत्यमिच्छुना ।। १०११ ।। ततःप्रभृति स श्रेष्ठी, तद्गौरवमकारयत् । नेपथ्यं घटयामास, पूजयामास चीवरैः ।। १०१२ ॥ वित्तवान् माणिभद्रोऽपि, जिनधर्मपरायणः । अकारयन्नवं चैत्यं, सुदृशां शैत्यकारकम् ॥ १०१३॥
आरामशोभा
कथा
For Private and Personal Use Only