SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमु० १० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमीं नन्दिनीमस्मै, दास्ये व्यवस्थयामुया । विवाहाऽनन्तरं लाग - भागो नो नास्ति कुत्रचित् ॥ ९८५ ॥ ध्यात्वेति नन्दनं स्माह, तुभ्यं दास्ये निजाऽङ्गजाम् । यतस्तव पिता मित्रं, मम पावित्र्यपेशलाम् ॥ ९८६ ॥ अतस्तुभ्यं प्रदास्यामि, मित्रपुत्रतया सुताम् । परं त्वया ममाऽभ्यर्णे, न वाच्यं किश्चन क्वचित् ॥ ९८७॥ आमिति गदिते तेन, नीतोऽसौ श्रेष्ठिना गृहम् । लग्नं विनाऽपि यामिन्यां, कन्याञ्च परिणायितः ॥ ९८८ ॥ तया साकं व्रजन्नेष, छिन्नशम्बलसद्धलः । अवन्तीं नगरीं प्राप्य, देशकुट्यां निषेदिवान् ॥ ९८९ ॥ ध्यातवानिति मे नास्ति, शम्बलं येन याम्यहम्। दूरे मम पुरी चम्पा, न स्त्री चङ्कमणक्षमा ॥ ९९० ॥ नास्याः पित्रा धनं किश्चित्, प्रदत्तं मम सर्वथा । उक्त्वा येनाऽऽयमृद्वाहः कृतो दद्यान्न किश्चन ॥ ९९९ ॥ तावद्धर्मः कुलं ताव - तावत्कार्यविमर्शनम् । तावल्लञ्जा धृतिस्ताव द्यावन्न स्यात्क्षुदर्दितः ।। ९९२ ।। यदि भिक्षामहं याचे, गृह्णात्यर्द्धं तदुद्भवम् । यतोऽर्द्धहारिणी रामा, चिन्तापादपसारिणी ॥९९३॥ ध्यात्वेति प्रियया साकं सुष्वापाऽसत्यनिद्रया । साऽपि श्रमार्त्ता शेते स्म, निद्रा विजयिनी सदा ॥ ९९४ ॥ अथ कन्थाद्यमादाय, निर्ययौ नन्दनो वणिक् । चकार जागरां सापि, नाथमैक्षत न क्वचित् ।। ९९५ ॥ हा ! नाथ ! किमु मुक्ताऽस्मि ?, परदेशे क्षुदर्दिता । त्वत्पाणिग्रहणं प्राप्य, कृतार्थाऽस्मीति चिन्त्यताम् ॥ ९९६ ॥ पित्रोरनिष्टा प्रथमं, प्रियस्याऽपि तथाऽभवत् । यो गृहे भवति लघुः, स बाह्ये नीयतेऽनिलैः ॥९९७॥ गृह्णीयाचेत्परः कोऽपि, मां जातनवयौवनाम् । स्वामिंस्तव कुले कोऽपि कलङ्कस्य नवाऽङ्कुरः ॥९९८॥ अनिष्टायाः पितुर्गेहे स्थिताया अपि न त्रपा । इदानीं देवता सत्यं, भ्रमणं वाच्यकारणम् ॥९९९ ॥ For Private and Personal Use Only सप्तमो भवः आरामशोभा कथा
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy