SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथं सुखमयी देव ! जाताऽहं त्वत्प्रसादतः । इति विज्ञातुमिच्छामि, यद्यागच्छति केवली ॥९५५॥ एवमुक्तवती याव-त्तिष्ठत्येपा नृपाङ्गना । तावदागाद्वराराम - पालकः पालकाभिधः ॥ ९५६ ॥ देव! ते चन्दनोद्याने, भूमिनन्दनसनिमे । त्रिकाल विन्महासचः, समागाजनपावनः ॥ ९५७॥ सिद्धान्तबारिधेश्चन्द्रो, वीरचन्द्राभिधानतः । मुनिपञ्चशताऽऽकीर्णो विस्तीर्णाहतदेशनः ॥९५८॥युग्मम् ॥ तच्छ्रुत्वा न्यगदद्राजा, प्रिये ! पूर्णा मनोरथाः । अथवाऽर्जितपुण्यानां चिन्तितं चित्तसात् स्फुटम् ॥९५९।। अथ राजा समं देव्या, सह भूत्या विभूषितः । जगाम वन्दितुं सूरिं, तं नत्वा निषसाद च ॥९६०॥ अथ तद्भावमालोक्या-वादीदेतन्महामुनिः । संसारसागरः सोऽय-मपारो भववारिभिः॥९६१ ॥ यानपात्रोपमं तत्र, मानुष्यं मानुषेश्वर ! । तत्र धर्ममयः कूप-स्तम्भः सरलतागुणः ॥ ९६२ ॥ सुगुरोर्देशना तत्र, नूनं सितपटोपमा । तया याति जनो भव्य-देशद्वीपादिषु स्फुटम् ॥ ९६३ ॥ तत्राऽस्ति मुकृतं नाम, पण्यं पुण्यमते ! वरम् । यत्प्रभावादभूच्छर्म, तव पत्नीवदञ्जसा ॥ ९६४ ॥ एतस्मिन्नेव सुदीपे, चम्पापूः कम्पवर्जिता । श्रेष्ठी कुलधरस्तत्र, नानावित्तधरः सुधीः ॥ ९६५॥ कुलानन्दा प्रिया तस्स, कुलाऽऽनन्देन शालिनी । तयोरिमाः सुताः जाताः, सप्तसन्तानदीपिकाः ॥९६६|| प्रथमा कमलश्रीश्चा-परा कमलवत्यपि । तृतीया कमला नाम, तुर्या लक्ष्मीरिति स्फुटम् ।।९६७॥ श्रीरिति पश्चमी पुत्री, यशोदेवी ततः परम् । प्रियकारिणीति नाम्ना, सप्तमी प्रियकारिणी ॥९६८॥ यथाक्रम कुले रम्ये, श्रेष्ठिना परिणायिताः। नेपथ्यानि प्रदत्तानि, पूजितास्तत्प्रिया अपि ॥ ९६९ ।। | सप्तमो भवः बारामशोभा कथा For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy