SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुबतखामि-* चरितम् सर्गः ॥५३॥ XXXXXXXoxokakak) ततः सा भूपतेः कोड -मध्यास्स स्मितवन्धुरम् । विमातुः पूर्वसम्भूतं, तं वृत्तान्तमचीकथत् ।। ९४०॥ द्वितीया इतो वीक्ष्य त्विषांभर्तु -रुदितं रुदितं तया । तात ! नाग ! त्वया साधं, सम्बन्धो भविता कदा? ॥९४१॥ इतश्च केशपाशात्स, नागदेहोऽपतन्मृतः। जायन्ते सत्यतो देवा, नासत्यं हि वदन्त्यमी ॥ ९४२ ॥ अथोवाच नृपः कान्ते !, हर्षे किं नु विषीदसि । ततः सा नागवृत्तान्तं, सप्रत्ययमवोचत ॥९४३॥ अथोचे हृषितो भूपो, मम पुण्यैः पतिस्त्विषाम् । उदियाय कथं लाभ-स्तव स्यात्प्रेमवारिधेः ॥९४४॥ इत्युदित्वा करे कृत्वा, कशां द्विजपतेः सुताम् । यावत्ताडयितुं कोपा-दुपाक्रमत नीतिवत् ॥९४५॥ तावदेषाऽन्तरे भूत्वा, जगाद करुणाक्षरम् । मुश्च मे भगिनी देव!, स्त्रीपहर्ता न सुन्दरः॥९४६॥ सप्तमो भवः देवि! त्वं परतो भूया, एनां नवनवैरहम् । कुमारैारयिष्यामि, शिक्षणीयाऽपि वर्णिनी ॥९४७॥ भारामशोमा क्षेपिताऽसि महाकूपे, यवं निर्दययाऽमुया । तदेनां मारयिष्यामि, तद्विजं मातरं तथा ॥ ९४८ ॥ कथा आरामशोभाऽभाषिष्ट, नीतिवित्सत्यमीरितम् । चेदत्ति कुकुरो लोकं, स लोकैर्भुज्यते नु किम् ? ॥९४९॥ अमुं दुःसहमाकर्ण्य, दृष्टान्तं जगतीपतिः । अहो! दयामयी केय - महो! रामाशिरोमणिः ॥९५०॥ अथ वाच्युच्चनीचानां, दृश्यतेऽन्तरमीदृशम् । वार्द्धिः क्षुभ्यति कल्पान्ते, न हि त्रिदशपर्वतः॥९५१॥ इत्युक्त्वा भूपतिः प्रीतो- ऽमोचयत्तां स्थलाशये । हट्टेष्वपि गतं नूनं, बलते कूटनाणकम् ।।९५२॥ INI॥५३॥ दम्पत्योरतिलाम्पट्यात् , कुर्वतोर्मन्मथोत्सवम् । तदेकतानमनसो-र्गतः कालः कियानपि ॥ ९५३ ॥ अन्येयू रहसि क्ष्माप-मुवाचाऽऽरामवर्णिनी । कथं पुराऽभवं देव ! दुःखदौर्गत्यपीडिता ।। ९५४ ॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy