SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतखामि द्वितीया सर्गः चरितम् ॥५०॥ KokeXXXXXXXXXX सप्तमो भवः विमातुरस्याः सत्कीर्तिः, प्रसृता गन्धकैतवात् । अगण्यपुण्यपूर्णानां, विषमप्यमृतायते ॥८५३॥ उवाच विनयादेष, राजानं प्रीतिपूर्वकम् । कश्चित्कालं मम ग्रामे, नृप ! प्रेषय पुत्रिकाम् ॥ ८५४ ॥ विहस्य भूपतिःस्माऽऽह, युक्तमुक्तं गुणाऽनघ!। परं ग्रीष्मोऽप्ययं काल-करालतपनाऽऽतपः॥ ८५५ ॥ वर्षासु प्रेषयिष्याम, - इति कूटोत्तरो नृपः । इमकं रञ्जयामास, कूटात्सर्वोऽपि रज्यते ॥ ८५६ ॥ राज्ञा प्रसादितो भट्टो-ऽगमग्राम स्थलाशयम् । सोऽथ मोदकवृत्तान्तं, स्वकान्तायाः समाख्यत ॥८५७॥ श्रुत्वा मोदकवृत्तान्त - मन्यथाभूतचिन्तितम् । शाखाच्युतप्लवङ्गीव, विमनास्तद्गृहिण्यभूत् ॥ ८५८ ॥ किमभूद् व्यत्ययः कोऽपि, किमु स्तोकं विषं त्वभूत् । किम्वाऽभून्मे मनोभ्रान्ति-र्यत्साप्राणिति मोदकात् ॥ ध्यात्वेति पर्यतीतेषु, वासरेषु कियत्स्वपि । सा चकारतरां फेला, गरगरललोलिताः ॥ ८६० ॥ तथेति प्रेषितो भट्टो, गतस्तं वटपादपम् । पूर्ववद् व्यन्तरो ज्ञात्वा, हृत्वा ता अपरा व्यधात् ।। ८६१॥ अर्पितो भूपकान्तायै, फेलालीः प्रेमलालसम् । पूर्ववत्सर्वदेवीभ्यो, ददौ दानपरायणा ॥ ८६२ ।। आसन्नप्रसवां राज-प्रियां विज्ञाय माहनः । उवाच भूपतिं देवीं, प्रेषयाऽऽशु स्थलाशये ॥ ८६३ ।। मित्वा जगाद भूपालो, देवी गन्ता पुरात्कथम् ? | लोकाचारो भवेल्लोके, राजाचारः परः स्मृतः ॥८६४॥ अथाधान्माहनः शस्त्रीं, जठरं प्रति दुर्मतिः । तवोपरि करिष्यामि, निजामत्रौघमालिकाम् ।।८६५॥ पञ्चेन्द्रियहतेीतो, राज्ञोचे विनयोत्तरम् । याहि याहि निजं ग्राम, प्रेषितेयं तवात्मजा ॥ ८६६ ॥ राज्ञाऽथ प्रेषिता देवी, शुभेति सपरिच्छदा। कालौचित्येन वर्तन्ते, महात्मानो न चाग्रहात् ।।८६७॥ Xoxoxaxox0X6x6kEXS आरामशोभाकथा ॥५०॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy