________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अगाद्विजगृहेऽप्येनं, सच्चके द्विजपुङ्गवः । द्विजपृष्टोऽवदन्मत्री, विशामीश्वरभाषितम् ॥ ८०९ ॥ तत्तथा प्रतिपेदे च, सर्वेऽप्युन्नतवासनाः। यद्येवं द्विज! भूपाल-समीपे सप्तामतः ॥ ८१०॥ कः कल्याणविरोधीति, जल्पन् भूपालमभ्यगात् । इदं जगाद विशदं, प्रेमभनिन्तरङ्गितम् ।। ८११ ॥ देवाऽस्माकमपि प्राणा- स्तवाऽऽयत्ताः सुता किमु । यद्यद्रत्नं भवेदुल्, तद्भूपमुपतिष्ठते ।। ८१२ ॥ इत्युक्तवन्तं तं राजा, सच्चके भूरिदानतः । तदैव तामुपायंस्त, लक्ष्मीमिव पतिः श्रियः॥८१३ ॥ पूर्व नाम - परावर्त, चक्रेऽस्या भूमिवासवः । इयमारामशोभेति, सत्यार्था मम वल्लभा ।। ८१४ ॥ अयमर्थः प्रसिद्धोऽभू-भूभुजा सदसीरितः। यदेव मन्यते खामी, जनस्तबहु मन्यते ॥८१५।। द्विजाय श्वशुरायाऽस्मै, भूपो ग्रामशतीं ददौ । तुष्टेषु जगतीशेषु क्षणाद्दारिद्यविद्रुतिः॥८१६॥ तया सहाऽचलद्राजा, कृतारामैकशोभया । सर्वास्खपि प्रियास्वनां, सद्गुणां बहु मन्यते ॥ ८१७॥ तस्या लाभेन भूपालः, खं कृतार्थममन्यत । अथ वा रत्नमासाद्य, को न माद्यति कोविदः? ॥८१८॥ तन्मुखाऽऽलोकशीतांशु-ज्योत्स्नया नेत्रकैरवम् । प्रीणयन् पृथिवीपालः, पन्थानं गतवान्वहन् ॥ ८१९ ॥ एकं रूपवती रामा, परं सातिशया गुणैः । रुरुचे पूर्णमासीव, शारदीनहिमांशुना ॥ ८२० ॥ क्रमाद्च्छन्नृपः प्राप, पाटलीपुत्रपत्तनम् । प्रवेशं कारयामास, तस्याः स्वविभवोचितम् ।। ८२१ ॥ धन्योऽयं जगतीपालो, यद्रूपपरिमाणभृत् । इयं प्राणेश्वरी जाता, नागनारीव भूचरी ।। ८२२ ॥ धन्येयं रमणीचूडा-मणिःशुभगुणावनिः । यद्राजाऽकृत कान्तां तां, तुल्ययोगस्थितौ सुखम् ॥ ८२३ ॥
सप्तमो भवः आरामशोभा
कथा
धीमु०९
For Private and Personal Use Only