SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् द्वितीया सर्गः ॥४७॥ **0X8XOXOXOXOXOXOXOX मा भैपी पुत्रि! सर्पत्वान् , मम जातिर्भयङ्करी । तवोपकारकर्ताऽस्मि, विरलः परतोषकृत् ॥ ७६६ ॥ श्रुत्वेति सदया सर्प, पिदधे वाससाऽथ सा । स्वयं सुष्वाप कपटात्, कूटमप्यभये शुभम् ॥ ७६७॥ भणन्तो जाङ्गुली व्याल-ग्राहिणः तूर्णमाययुः । क्वचित् दृष्टस्त्वया सर्पन , सर्पः पङ्केरुहानने ! ॥७६८॥ साऽप्यवोचत सुप्ताऽस्मि, न किश्चिदृष्टत्यवहम् । अहेर्बिमेमि नाम्नाऽपि, किमु प्रत्युत वीक्षणात् ? ॥७६९।। तेऽप्यूचुर्बालिका वेत्ति, नेयं किञ्चित्कथश्चन । दृष्टश्चेदनया नागो-ऽभविष्यरतो गता ॥ ७७०॥ इत्युक्तवन्तः सर्वत्र, व्यालमार्गनिभालनम् । दिग्मूढा इव कुर्वाणा, भ्रमुस्तस्थुरगुस्तदा ॥ ७७१ ॥ गतो नः पश्यतां पापी, गदन्त इति विस्मिताः । स्थानं निजं निजं जग्मु-र्भाग्यायत्तायुषः स्थितिः॥७७२॥ ऊचे द्विजसुता नागं, प्रयाता ह्याहितुण्डिकाः । देवगुर्वोः प्रसादेन, बभूव तव जीवितम् ।। ७७३ ॥ ततो रूपं निजं कृत्वा लसत्कुण्डलमण्डितम् । ऊचे नागकुमारोऽथ, रूप्यघर्घरसुवरः ॥ ७७४ ।। तवोपकारकरणा-द्वत्से! तुष्टोऽस्म्यहं भृशम् । आहितुण्डिकमत्रेभ्यः, क्षुद्रा शक्तिर्ममोच्चकैः ।।७७५।। परं परमया शक्या,- पालितो बालवत्त्वया । शक्तो हि नान्यथा कर्तु, कर्मशक्तिं नु कश्चन ।।७७६॥ वरं वृणु महाभागे !, मम जीवितदायिके । ततःप्राह द्विजसुता, यदि तुष्टोऽसि सत्यतः ॥ ७७७ ॥ तदा कुरु वराराम, छायाच्छिन्नमहातपम् । अहं यत्र स्थिता चारु, चारयामि गवाङ्गणान् ॥ ७७८।। श्रुत्वेत्यस्या वचो नाग-कुमारो ध्यातवानसौ। मयि तुष्टेऽपि किमियं ? याचते मातृशासिता ॥७७९।। १ मूर्खा । सप्तमो भवः | आरामशोभा कथा ॥४७॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy