SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जनको गृहचिन्तां न, करोति गतचेतनः । उदितास्तमितं हन्त !, न जानन्ति कुशिक्षिताः ॥७५२॥ एवं ध्यातवती बाला, मालेव च्छाययोज्झिता । विहाय दूरतो लज्जाम्, तातमुक्तवती रहः ॥ ७५३ ॥ निर्विण्णा गृहभारेण, चेष्टितेन तवापि च । अत्याकृष्टं त्रुटत्येवाऽतिपूर्ण स्फुटति स्फुटम् ॥७५४॥ कुरु काश्चिद् वधूं कर्म्म, न कर्त्तास्मि गृहोद्भवम् । भारं मुञ्चति यः किं नु गृह्यते भारवाहनम् ॥७५५ || इतश्च जनकेनाऽस्याः, साधूक्तं दधता हृदि । विभवैर्विधृता काचिद्वनायत्ता हि योषितः ॥ ७५६ ॥ साऽपि पुत्र्यां स्वगेहस्य, भारं निक्षिप्य पुत्रवत् । भुङ्क्ते स्वपिति च खैरं, सर्वः सौख्यं समीहते ॥७५७ || पूर्ववत्कर्म कुर्वाणा, दधाना खेदमुच्चकैः । अतिचक्राम द्वादश वत्सरीं सुखकर्त्तरीम् ॥ ७५८ ॥ अन्येद्युर्विस्तृणस्यान्तः - सुप्ता गोचारणोद्यता । स्थानास्थानविचारो हि, श्रमार्त्तानां कुतो भवेत् ? ॥ इतो विषधरो भीतः, कञ्जलः श्यामलच्छविः । मूर्तिमानिव कोऽप्याऽऽगात्, कालिन्दीसलिलप्ठवः ॥७६०॥ तामुपेत्याऽवदद्वालाम्, निर्निद्रां नरभाषया । विद्धि नागकुमाराख्यं, द्विजपुत्री ! महोरगम् ॥ ७६१ ॥ रक्ष रक्ष दयादक्षे !, तवाहं शरणं गतः । पश्चादमी समायान्ति, यद् व्यालग्राहिणो मम ॥ ७६२ ॥ मी भूयात् सुन्दरं मेऽङ्गम्, करण्डकविडम्बितम् । तव साहाय्यतो जीवितव्यं मम विवर्द्धताम् ॥७६३॥ भद्रे! निजोत्तरीयेण, मां पिधेहि निजाङ्गवत् । भीतानामाऽर्तद्दुःखाना - मुपकारपरो हि कः? ॥७६४॥ नागदेवोऽप्यहं देवा-यालग्राह्यः सुमन्त्रतः । महीयो मन्त्रमाहात्म्यं, नैतेभ्यो गन्तुमीश्वरः ॥ ७६५|| १ अत्र न माङ् किन्तु मा शब्दः । For Private and Personal Use Only सप्तमो भक मारामशोभा कथा
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy