SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि द्वितीय सर्ग: चरितम् ॥४५॥ | सप्तमो भवः तवाऽपि पूर्वजा राजन् !, वार्धके मुनिवृत्तयः । साम्प्रतं साम्प्रतं तत्ते, कर्तुमेतन्महामनाः! ॥ ७०९ ॥ इदं राज्यं कुमारेऽस्मिन् , यच्चया विनिवेश्यते । विचार्य तत्र किञ्चिन्नाऽ-स्माकमेष भवानिव ॥७१०॥ भूभुजो मत्रिणां वाचं, श्रुत्वा नृपतिनन्दनः। प्रोवाच तातचरणा!, अप्रसन्नाः कथं मम ? ॥७१२॥ अथोचे जगतीपालो, मत्पुत्रोऽसि विवेक्यसि । गिरो निराक्रियन्ते नः, किमज्ञेनेव यत्त्वया ? ॥७१२॥ एवं पितृगिरः श्रुत्वा, तनयो नाम सन्मयः । ऊचे देव ! त्वदादेशो, मान्यः स्वमोपदेशवत् ॥ ७१३ ।। असी न्यवेशयद्राजा, कुमारं सम्मदोडुरः । अभिषेकासने शक्रः पर्यक इव तीर्थपम् ॥ ७१४ ॥ माङ्गल्याऽऽतोद्यमालासु, वाद्यमानासु सर्वतः । कुमारः सिषिचे मूर्ध्नि, भूभुजा तीर्थवारिभिः ।। ७१५ ॥ अथ भूमिभुजोऽन्येऽपि, सौवर्णकलशैर्नृपम् । अभ्यषिश्चन्नमुं जैन-मिव बिम्बं प्रतिष्ठितम् ।। ७१६ ॥ अथोदितं द्वितीयेन्दु-मिव नम्रशिरोधराः। प्राणमनवमुर्वीशं, निखिला अपि नागराः ॥ ७१७॥ सदशानि मनोज्ञानि, वासांसि श्रीनृपाज्ञया । व्यूतानीवेन्दुकिरणैः पर्यधान्नूतनो नृपः ।। ७१८ ।। चन्दनैश्चन्द्रकान्ताश्म-स्त्यानविन्दकैरिव । तस्याङ्गरागं सर्वाङ्ग, विदधुः वारयोषितः ।। ७१९ ॥ भूषणैर्भूषितस्तैस्तैरामुक्तमणिमौक्तिकैः । असौ वसुन्धराकल्पः कल्पद्रुरेव रेजिवान् ॥ ७२० ॥ माणिक्यभासुरं रेजे, किरीटं तस्य मूर्द्धनि । उदयाद्रितटीटीक-मानं विम्ब रवेरिख ।। ७२१ ।। अधारयत्पुरज्येष्ठः, छत्रं मूर्ध्नि नवेशितुः । क्षीरनीरधिडिण्डीर - पिण्डैरिव विनिर्मितम् ॥ ७२२ ॥ १ गच्छन्तम् । २ क्षीरसमुद्रफेनपिण्डैः । युगबाहु निदर्शनम् al॥४५॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy