SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। तावत्काचिदनङ्गजङ्गमपुरीवाग्रे मनोग्राहिणी रम्भास्तम्भमनोहरोरुयगला बालाभवच्चक्षुषोः ॥ ३० ॥ स्वप्नोऽसौ किमुतेन्द्रजालमपरं किं वा किमप्यद्भुतं यत्सा कान्तितरङ्गिताङ्गलतिका दृष्टा कुरङ्गेक्षणा। उल्लेखः स नवीन एव मुमतेः कस्यापि रूपे विधेः संवादोऽपि न यस्य पङ्कजशशिज्योत्स्नामृणालादिभिः ॥३१॥ विदूषकः---भो, एदस्स उजाणप्पदेसस्स किं करीअदु जत्थ अणत्यो एरिसो समावडिदो । (क) राजा-मूर्ख, तदेकं देवस्य स्टशतु मदनस्यास्पदपदं लतास्तास्तत्रत्याः स्तबकयतु चैत्रः प्रतिदिनम् । असो दृष्टा यत्र क्षणममललावण्यसरसी जगन्नेत्राचम्यं किमपि दधती कान्तिसलिलम् ॥ ३२ ॥ विदूषकः-भट्टिणो संदावदाअणं ति भणामि । (ख) राजा-सखे, चान्द्री वर्तिनयनयुगले जीवलोकस्य सैका सा साम्राज्ये कुसुमधनुषः कीर्तिहेतुः पताका । तत्प्राप्त्याशाविवशमनसा केनचित्तप्यते चे निःसंबन्धं कथयतु भवान्कस्तदीयोऽपराधः ॥ ३३ ॥ विदषकः-(छोटिकां दत्त्वा ।) जइ एवं अत्थि विवेओ ता कीस ण विरज्जीअदि । (ग) राजा-अनभिज्ञोऽसि । कथ्यते । पश्य । रागः कस्यचिदेति चेतसि पदं यः काकतालीयतः कस्यांचिन्न विवेकवारिविसरै|तोऽपि निर्यात्यसौ । (क) भोः, एतस्योद्यानप्रदेशस्य किं क्रियते यत्रानर्थ ईदृशः समापतितः। (ख) भर्तुः संतापदायकमिति भणामि । (ग) यद्येवमस्ति विवेकस्तत्कुतो न विरज्यते । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy