SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ अङ्कः) कर्णसुन्दरी। तल्लावण्यरसस्य शेषममला सा शारदी कौमुदी तद्धृनिर्मितिमानसूत्रमपि तच्चापं मनोजन्मनः ॥ २६ ॥ अपि च । मजन्तीव दृशः कुरङ्गकदशो लीलाविलासोर्मिषु भ्रलेखा सृजतीव विभ्रमशतैः कामाय दामावलिम् । लावण्यामृतनिर्झरः स्नपयतीवाङ्गानि किं चाधर स्तारां सिञ्चति पद्मरागकिरणोत्सेकैरिवैकावलीम् ॥ २७ ॥ अपि च । त्रिवलिवलितलीलालोलवेणीकलापं किमपि रसविभूतेस्तिर्यगाकेकराक्षम् । कलितकुटिलकण्ठं दर्शनोत्कण्ठयास्या लिखितमिव ममान्तस्तन्मुखं मन्मथेन ॥ २८ ॥ विदूषकः-भो, किं वि पुच्छामि । (क) राजा-(तदवधीरणेन ।) विधत्ते निःसेकं सहजरमणीयस्तरुणिमा वपुर्वल्ली चित्रैः कवचयति लीलाकिसलयैः । विलासव्यापारः किमपि कमलस्थो नयनयो रनङ्गं तन्व्यङ्ग्यास्त्रिभुवनजिगीषू रचयति ॥ २९ ॥ विदपकः---भो, का एमा लीलावणप्पवेसे पिअवअस्सेण दिहा (ख) राजाध्यानान्ते विधिना प्रणम्य चरणौ चन्द्रार्धमौलेरहं कैश्चिजप्यपदैः प्रदक्षिणयितुं यावत्समभ्युद्यतः । (क) भोः, किमपि पृच्छामि। (ख) भोः, कैपा लीलावनप्रवेशे ग्रियवयस्येन दृष्टा । १ अपि च' इत्यादर्श नास्ति. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy