________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
इन्दोर्गर्भ चिरमिव धृतैरङ्गकैस्तामनङ्ग__ स्याङ्गावाप्तौ पुनरिव नवां सिद्धिमालेखयामि ॥ २२ ॥
(नेपथ्ये ।) जयति विश्रामावसरो देवस्य । संप्रति अन्योन्यं लज्जयेव प्रतिफलनभिषात्कुटिमान्तर्विशन्तः __ पातालं भूमिपालाः किसलयितशिखाः पाणिवन्धैः प्रणम्य । गच्छन्ति च्छत्रखण्डस्तबकितककुभश्चित्रवादित्रजैत्र___ध्वानाकृष्टप्रहृष्टप्रचुरपुरवधूवीक्ष्यमाणा गृहाणि ॥ २३ ॥ अपि च । पञ्चास्त्रस्य त्रिलोकीहठविजयमहारम्भसंभारदीक्षा
माचक्षाणा इवोच्चै घनझणझणन्मेम्बलाचक्रवालैः । ध्वस्ताम्भोजैः सुभिक्षं दिशि दिशि विशदैर्दर्शयन्त्यश्च वके
श्चन्द्राणां सान्द्रलीलातिलकितगतयो निर्गता वाररामाः ॥ २४ ॥ किं च । विश्रान्तो मुरजध्वनिर्जलधरवानानुकारी गताः
संगीताङ्गणतस्तरङ्गितमुखज्योत्स्नारसा लामिकाः । चण्डः केलिशिखण्डिनां न विरमत्यद्यापि नृत्योत्सव___ श्वञ्चञ्चञ्चव एव किं च विचरन्त्यन्तश्चकोराङ्गनाः ॥ २५ ॥ प्रणिधिः-यत्पुनर्देवो विश्राममण्डपमलंकृतवांस्तन्नूनमेतदर्शनजन्मा मन्मथावेग एव विविक्तस्थानस्थितिमुपदिशति । तद्गत्वा यथोचितं विरचयामि । (इति निष्क्रान्तः ।)
शुद्धविष्कम्भकः ।
(ततः प्रविशति राजा विदूषकश्च ।) राजा-(सौत्सुक्यम् ।) धातुस्तन्मुखवर्तनाफलहकः श्यामावधूवल्लभ
स्तल्लेखोद्यततूलिकामगलितास्ताराः सुधाविग्रुपः । १. 'किशलयितशिखापाणि-' इत्यादर्शपाटः, २. 'छत्रएंड-' इत्यादर्शपाठः. ३. 'ज्झणज्झण-' इत्यादर्शपुस्तकपाठः.
For Private and Personal Use Only