________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
चालुक्यपार्थिवकुलार्णवपूर्णचन्द्रः
साम्राज्यमत्र भुवनत्रयगीतमेति ॥ १३ ॥ (पुरोऽवलोक्य ।) कथमयमस्मद्धाता महामात्यप्रणिधिभूमिकामाश्रित एव । तदेहि । अनन्तरकरणीयाय सज्जीभवावः ।
(इति निष्क्रान्तौ ।)
प्रस्तावना ।
(ततः प्रविशति प्रणिधिः ।) प्रणिधिः-अहो किमपि यौगन्धरायणप्रभृतिमहामात्यविजयिनोऽभ्यर्हिता मतिरमात्यसंपत्करस्य । तथा हि ।
वात्सल्यं न वहत्यपत्यविषये व्याक्षिप्यते न क्षणं __ दाक्षिण्येन समीहिते नववधूवर्गेऽपि धीराशयः । निष्णातः कुटिले नयाध्वनि चरन्नाचारपूतः प्रभो
दुःसाध्यानपि साधयत्यभिमतानान्मुसाधानिव ॥ १४ ॥ अपि च ।
अस्याश्चर्यमयस्य मन्त्रगतयः स्वैरन्तरङ्गरपि
ज्ञायन्ते न विधेरिवातिकुटिला वैदग्ध्यसीमाभुवः । श्रूयन्ते प्रतिभूभृतां वसतयस्त्वङ्गत्तुरंगावली
विश्वोत्खेलखुराग्रखण्डितमणिक्षोणीतलाः केवलम् ॥ १५ ॥ किं च ।
शेषे प्रज्ञाविशेषः स्फुरति यदि किमु च्छद्मना पद्मनाभः ___ संरम्भात्तेन तेन स्वयममुरवधव्यग्रभावं दधार । वाचामीशोऽपि सत्यं यदि विपुलमतिः श्रूयते वजिणः किं
दैत्यावस्कन्दबन्दिग्रहणपरिभवश्यामला शक्रलक्ष्मीः ॥ १६ ॥ संप्रति प्रेषिताश्च प्रतिदिशं सेनापतय इति । (कर्ण दत्त्वा । आकाशमवलोक्य ।)
अमरसरिदुपान्तभ्रान्तचक्राह्यचक्र
भ्रममुरसिजभारैः काश्चन व्यञ्जयन्त्यः ।
For Private and Personal Use Only