SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ अङ्कः] कर्णसुन्दरी। मूत्रधारः-नन्वस्मिन्नणहिल्लपाटणकमुकुटमणौ श्रीशान्त्युत्सवदेवगृहे भगवतो नाभेयस्य महामात्यसंपत्करप्रवर्तिते यात्रामहोत्सवे समुत्सुकः सामन्तजनः प्रत्ययप्रयोगदर्शनाय । (नेपथ्ये गीयते ।) णवमाहवीऍ दाविय सरसविलासाइँ परवसाइन्तो । मन्दीकअकुन्दलआचुम्बणतहो भमइ भमरो ॥ ९ ॥ (क) मूत्रधारः-(सहर्षम् ।) कथमुपक्षिप्तैव नटैनाटिका कर्णसुन्दरी । अहो सुकृतानि सामाजिकजनस्य । हेहो भाग्यमहानिधिर्दयितया देवस्य दग्धुः पुरां ___ पात्रं पुत्र इव स्वयं विरचितः सारस्वतीनां गिराम् । साहित्योपनिषन्निषण्णहृदयः श्रीविह्नणोऽस्यां कविः किं चैतत्किल भीमदेवतनयः साक्षात्कथानायकः ॥ १० ॥ स च कविरेवमुक्तवान् औचित्यावहमेतदत्र तु रसः काष्ठामनेनार्हति ___व्युत्पत्तेरिदमास्पदं पदमिदं काव्यस्य जीवातवे । एवं यः कवितुः श्रमः सहृदयस्तं पुस्तकेभ्यः पठ न्सूक्तीरुत्पुलकः प्रमाटि निविडैरानन्दवाप्पोद्गमैः ॥ ११ ॥ अपि च । न विश्वासस्थानं प्रियमभिदधानोऽपि पिशुनो विषं प्राणान्हर्तु धुरि मधुरमेव प्रभवति । परं शक्तः कर्तुं किमु मम वराकः कतिपये ___ यदद्यापि ज्ञप्तौ सुकविवचसां केऽपि सुजनाः ॥ १२ ॥ (कर्ण दत्त्वा ।) किमात्थ । कोऽत्र कथासंबन्ध इति । श्रूयताम् । विद्याधरेन्द्रतनयां नयनाभिरामां लावण्यविभ्रमगुणां परिणीय देवः । (क) नवमाधव्या दृष्ट्वा सरसविलासान्परवशायितः । मन्दीकृतकुन्दलताचुम्बनतृष्णो भ्रमति भ्रमरः ।। For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy