________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
अपि कुपितचकोरीनेत्र सब्रह्मचारी
भजति ककुभमैन्द्रीं कोऽपि सांध्यो विलासः ॥ ४ ॥ दधति गृहचकोराचन्द्रिकाम्भः शिलोञ्छं क्वचन कनकशालाजालकाभ्यन्तरेषु । अपि रतिभवनानि व्यञ्जयन्ति प्रियाणां
निधुवनसुखनिद्रां मूकपारावतानि ॥ ५ ॥ विडम्बयति दाडिमीकुसुममत्र सौत्रामणी
दरिद्रति विमुकुलकान्तयस्तारकाः । वपुस्तुहिनदीधितेरपि चकास्ति कस्तूरिका
कुरङ्गनयनारुणं वरुणलाञ्छितायां दिशि ॥ ६ ॥ (नेपथ्याभिमुखम् ।) आर्ये, अपि सुसंगतानि रङ्गमङ्गलानि । (विमृश्य 1) परामुखीवार्या । किं नु कारणं स्यात् । (स्मृतिमभिनीय ।)
आस्थानावसरे नरेन्द्रतरणेः सा दाक्षिणात्या नटी
(सप्रत्ययम् ।) इतस्तावत् ।
नृत्यन्ती यददर्शि नूतनवयोविद्यानवद्या मया । तद्गोष्ठीरसनिर्भरण किमपि स्वमे यदद्य स्थितं
मन्ये मन्युकषायितेन मनसा तेन स्थिता मे प्रिया ॥ ७ ॥
(प्रविश्य)
नटी - इअमि । (क) सूत्रधारः—— अलमसंभाव्यसंभावनया । परिणयविधिरासीदावयोः पांसुलीलापरिचयदृढरूढस्नेहयोर्बाल्य एव ।
स्मरास किमपि तत्राप्यानुकूल्यात्परं यत्सपदि पुनरसौ मे पञ्चवाणः प्रमाणम् ॥ ८ ॥ नटी - न मे कावि आसङ्का । आणवीयदु किं अणुचिट्ठीयदु ति । (ख)
(क) इयमस्मि ।
(ख) न मे काप्याशङ्का । आज्ञापयतु किमनुष्ठीयतामिति ।
For Private and Personal Use Only