SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः। प्रिये, किं ब्रवीपि—'सच्चं कहेइ महाभाओ। णिसग्गवैरी क्खु एसो विरहिजणस्स' (क) इति । मरालिके, किं ब्रवीपि- 'कहं विअ सहावसीअलो संदावेइ चन्दमा' (ख) इति । सत्यम् । नेत्रमग्निमयमङ्गजशत्रोः संप्रतार्य सुचिराश्रयणेन । दाहशक्तिमपहृत्य तदीयां चन्द्रमा दहति नूनमयुक्तान् ॥ २९२ ।। (सविमर्शम् ।) हन्त, चिरादप्यनेन हताः स्मः । तदद्य प्रियासाहाय्यादसंजातभीतिरेनमुपालभे । (चन्द्रं प्रति ।) खण्डशस्तव निकृन्तति कालो मण्डलं यदमृतस्य हिमांशो । अर्जितस्य हननात्पथिकानां पातकस्य सदृशः स हि दण्डः ॥२५३।। अथवा त्वचरितविलोकनेन दुर्मनायमानस्तवैव तातो नित्यमुपालभते । तथा हि। विप्रयोगिहननाय वृथा म जातवानिति कथं जठरात्त्वम् । उद्यतोर्मिकरताडितवक्षाः क्रन्दति त्वदुदयेऽम्बुधिरिन्दो ॥ २५४ ॥ भगवति, किं ब्रवीपि-'मा मैवम् । लोकानुग्रह तत्पराः खलु चन्द्रमदनमलयानिलादयः । अतो नोपालम्भमर्हन्ति ! यतः । कामानलेन मलयानिलबोधितेन कारुः कलाद इव शीतकरः प्रताप्य । स्त्रीपुंसयोः प्रणयटकणतो द्रवत्वं नीत्वा मनःकनकमेकरसीकरोति ॥ २५५ ॥' इति । (सप्रश्रयम् ।) तर्हि प्रणमामि । स्फुरदिन्दीवरानन्दनाडिंधमकराङ्कुरम् । वृन्दारजीवजीवातुं वन्दे शिवशिरोमणिम् ॥ २५६ ॥ (क) सत्यं कथयति महाभागः । निसर्गवैरी खल्वेष विरहिजनस्य । (ख) कथमिव स्वभावशीतल: संतापयति चन्द्रमाः । १. 'मन्दानिला' ख. २. 'काम' ख. १० For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy