________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
भगवति, किं ब्रवीषि-'एवमेतत् । भास्वत्कर्कशशाणचक्रकषणैराकाशकालायसा
द्यचूर्ण निबिडं निपत्य तम इत्याख्यां जगत्यामगात् । तेच्छेन्दुच्छलसिद्धपारदमहाबिन्दोः समायोगतो
जातं रूप्यरजोमयं वयमिदं ज्योत्स्नां समाचक्ष्महे ॥२४६॥ इति । अहमेवं तर्कयामि ।
समयशबरो व्योमारण्ये सुधाशनमक्षिका
नुविहितसुधाबिम्बक्षौद्रस्फुरत्पटलं प्रति । कलयति कलङ्काख्यं धूमं निपीड्य ,श्च त
त्किरति मधुरज्योत्स्नाक्षौद्रं महीतलभाजने ॥ २४७ ॥ अपि च ।
दष्टे जगद्वपुषि कालभुजंगमेन
तत्रान्धकारमिषमाविरभूद्विपं यत् । संजातलक्ष्माणि तदिन्दुमणौ निपाय्य
ज्योत्स्नामये पयसि तं क्षिपति स्म धाता ॥ २४८ ॥ अथवा ।
आयताग्रसितरश्मिनिबद्धं लाञ्छनछविमपीरसदिग्धम् ।
चन्द्रकैतवमरुत्पटचक्र क्रीडयोत्सृजति किं स्मरबालः ॥ २४९ ॥ किं च ।
दिग्यत्रतस्तिमिरचूर्णविशेषपूर्णा
दुद्गत्वरोडुमयरञ्जकविस्फुलिङ्गात् । कालेन पूर्वगिरिदुर्गजुषा प्रयुक्तो
___वृत्तोपलो विधुमिषात्पथिकान्हिनस्ति ॥ २५० ॥ अथवा नायं चन्द्रः ।
शम्बरारिरमृतं विषगर्भ चन्द्रबिम्बकपटात्प्रयुनक्ति । यद्वाहिः सितमथासितमन्तः प्रोषितान्दहति दर्शनमात्रात् ॥ २५१ ॥ १. 'शोणकोणकपणेः' ख. २. 'यश्चेन्दोश्चल' क. ३. 'सुविहित' ख. ४. 'चन्द्रकाचनमषी' ख. ५. 'यन्त्रं' ख. ६. 'मयरम्बुक' ख.
For Private and Personal Use Only