________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः।
प्रिये, मरालिका कर्णोत्पलेन ताडयन्ती सस्मितं किं ब्रवीषि–'हला मरालिए, कहं अम्बं वि परिससि' (क) इति । भगवति, किं ब्रवीषि'आ शतसंवत्सरान्तमस्त्येव कुलवृत्तम् । अयं तु दुर्लभः स्वाभिमतविषयानुभवः' इति । प्रिये, अपि नाम श्रुतो भगवतीनिदेशः । प्रिये, सस्मितं किं ब्रवीषि-'ण केवलं सुणीअदि अनुट्ठीआदि अ' (ख) इति । कथं भगवत्युपदेशेनाकलङ्कहृदया प्रेयसी संवृत्ता । भगवती किं ब्रवीति
'निसर्गादेव युवयोनिरूढप्रेमबन्धयोः ।
निशायितं मया जोषं कैरविण्यब्जयोरिव ॥ २४२ ॥' इति । प्रिये, किं ब्रवीपि—पेक्ख पेक्ख । एदं कन्दलइ चन्दबिम्बम्' (ग) इति । अयि, इन्दुना मम किमब्धिबिन्दुना सिन्धुना च पुनरस्य बन्धुना ।
आनने जयति ते वरानने चञ्चले च कलिते ढगञ्चले ॥ २४३ ॥ (प्राचीमवलोक्य ।) कथमुदि तमेव विरहिजनप्राणजगत्प्राणफणिना हराशरोमणिना । तथा हि।
कलितमम्बरमाकलयन्करैर्मुदितपङ्कजकोशपयोधरः ।
विकसदुत्पलनेत्रविलोकितः सनि निशां सरसीकुरुते विधुः ॥ २४४ ॥ किं च ।
आलोक्य चन्द्रमसमभ्युदितं समन्ता
दुहेल्लर्मिविचलत्कलशाम्बुराशेः । विष्वग्विसारिपरमाणुपरम्परैव
ज्योत्स्नात्मना जगदिदं धवलीकरोति ॥ २४५ ॥ (क) सखि मरालिके, कथमम्बामपि स्पृशसि । (ख) न केवलं श्रूयतेऽनुष्ठीयते च । (ग) प्रेक्षस्व प्रेक्षस्व । इदं कन्दलयति चन्द्रबिम्बम् । १. 'भगवति, किं ब्रवीषि' ख. २. विलसत्' ख.
For Private and Personal Use Only