________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः ।
प्रेषितं पत्रमुपनतम्' इति । किमिति प्रेषितं पत्रम्। किं ब्रवीषि-'इदानीं राजोपप्लवाद्रङ्गनगरं विहाय मधुरां गताः स्मः । तद्वत्सा मञ्जरी कतिचन मासांस्तत्रैव मातृभवने स्थातुमर्हति । त्वं तावदेतत्पत्रिकावलोकनात्परं न क्षणमपि विलम्बितुमर्हसि' इति । वयस्यौ, किं ब्रूथः----'वयस्य, दिष्ट्या तव प्रसन्नाः कुलदेवताः' इति । (सौत्सुक्यम् ।) ततस्ततः । किं ब्रवीषि-'ततस्ता मञ्जरी तत्सहोदरं स्वच्छगुच्छं च पुनर्निवलं तेन पत्रिकानेत्रा सद्वितीयः प्रस्थितो माधवः' इति । (सविस्मयानन्दम् ।)
हन्त पत्यपदेशेन मृत्युना हरिणेक्षणा।।
कला चान्द्रीव तमसा वियुक्ता सहसा कथम् ॥ २२९ ।। क्वेदानी प्रेयसी । किं ब्रवीषि-'भद्र, भवद्विरहविह्वलामध्वपरिश्रमखिन्नां मन्यमानो मन्दारो मन्दिर एव मरालिकाद्वितीयां मञ्जरीमास्थाप्य सकलबन्धुकुलसमेतः कालिकामाराधयितुं बाह्योद्यानं गतः' इति । अन्यदप्यनुकूलं भगवत्याः प्रसादेन । क्षणमात्रं ध्यानारूढा भगवती कलहंसकमयूरको प्रति किं वदति- 'वत्सौ, युवयोरपि दिष्टया फलिप्यात मनोरथः । तदवश्यं व्याप्रियतामभिमतविषयेषु' इति । मयूरक, किं ब्रवीषि-'कलहंसकस्य कमलिनी करतलगतैव वर्तते । मम कथं मन्दभाग्यस्य प्रकृतिचपला सौदामिनी प्रसीदेत्' इति । (पुनरपि ध्यात्वा ।) किं ब्रवीति भगवती-'मयूरक, पूर्वद्युर्जाग्रतो गुरुजनागीता सौदामिनी प्रतिनिवृत्ता । न खल्वस्यामपि रजन्यां तथा करिष्यति' इति । वयस्यौ, किं ब्रथः-'न खलु ज्ञायते किं वा भविष्यति' इति । आः, कथं भगवत्या वचनेऽपि विचिकित्सा । (श्रवणमभिनीय ।) कथं पदशब्द इव श्रूयते । (विलोक्य ।) कथं सत्वरं मरालिका समापतति । भगवति, किं ब्रवीषि-'भद्र, सांप्रतमसह्यवेदनया वत्सया नेपितेयं भविष्यति' इति । (पुर्नीवलोक्य ।) कथं प्रत्यासन्नैव । किं ब्रवीषि-'कहं विलम्बीअदि ।
१. 'राजकार्यो' क. २. 'त्वं तावत्' इत्यादि, 'अर्हसि' इत्यन्तं क-पुस्तके नास्ति. ३. 'स्वच्छं च' क. ४. 'मरालको' ख. ५. 'प्रसीदतीति' ख. ६. 'विज्ञायते' ख.
For Private and Personal Use Only