________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अपि च ।
जगदिव ' हुलातपाभितप्तं जनयितुमद्य जलाभिषेकशीतम् ।
परिधृतरविशातकुम्भकुम्भा प्रचलति पश्चिमवारिधिं दिनश्रीः ॥२२४॥ किं च ।
पतति रविरपूर्ववारिराशौ हृदि पथिकस्य यथात्मभूर्हताशः ।
प्रसरति च तमां तमःप्ररोहः प्रतिपदमैस्य यथा मनोविमोहः ॥२२५॥ किं ब्रूथः-- 'अभिभूय सतामवस्थितिं जडजेषु प्रतिपाद्य च श्रियम् ।
जगतीपरितापकृत्कथं जलधौ नावपतेदसौ रविः ॥ २२६ ॥' इति । (अन्यतोऽवलोक्य सकरुणम् ।) हन्त हन्त ।
चरमाचलपरभागं चक्षुर्जगतामगाद्यावत् ।
हा तावदेव कोको ढूँनावन्योन्यमगमतां दूरम् ॥ २२७ ॥ (पुनर्विलोक्य ।) कथमित एवागच्छति भगवती जटावती । (सप्रश्रयम् ।) भगवति, इत इतः । (किंचिदुत्थाय ।) भगवति, प्रणम्यसे । किं ब्रवीषि'वत्स, अचिरादेवाभिमतं लभस्व' इति । (सनिर्वेदम् ।) । कथं ममाप्यभिमतलाभः । किं ब्रवीषि-'अद्यैवोपनतमित्यवधार्यताम्' इति । (सहर्षम् ।) कथमिव । किं ब्रवीषि-'अर्धपथात्पुनरागता मञ्जरी' इति । वयस्यौ, किं ब्रूथः- 'अहो सूनृतवादिता पुरोहितपुत्रस्य वीतिहोत्रस्य' इति । कथं नाम ज्योतिर्विदां वितथवादिता भवेत् । (सस्पृहं स्वगतम् ।)
अन्तर्मनोजदहनोष्णशिखावलीढ____ श्वासोपरोधपरिपाण्डुलसत्कपोलम् । मद्वीक्षणक्षणभवन्नवकान्तिपूरं
- द्रक्ष्यामि तद्वदनवारिरुहं कंदा नु ॥ २२८ ॥ किं ब्रूथः- 'भगवति, किं पत्यैव पुनरानीता' इति । भगवति, किं वदसि नहि नहीति । (सप्रमोदं स्वगतम् ।) तर्हि कथमागता प्रियतमा । किं ब्रवीषि'शृणु । यावदेवैनामादाय क्रोशमात्रं गतो माधवस्तावदेव तत्पित्रा मलयेन
१. 'चरमां' क. २. 'अद्य' क. ३. 'यूनां' क. ४. 'वत्स वत्स' क. ५. 'कथमिव कथमिव' क. ६. 'वयस्यो' क-पुस्तके नास्ति. ७. कदाहं' ख. ८. 'ब्रवीषि' ख.
For Private and Personal Use Only