SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। वयम्, किं बूथः--'अहो परमार्थवादिता याचकस्य । ततस्ततः' इति । ततः कतिपयदिनान्तर एव सा नवीननगरमिदमागता । पश्चादहमपि । अत्र च मयीव तस्यामप्यपक्षपातं दर्शितदपै कंद तत्र भगवत्या जटावत्या विदिततदभिप्रायया परमकारुणिकया स्वयमेव तीर्थयात्राप्रसङ्गेन कालिन्दीतीरवृन्दावने विज्ञातपूर्व मामुपगम्य कृतप्रणाममाशीभिरभिनन्द्य 'वत्स मुकुन्द, कथं कंदर्पसुन्दरायां कन्दलति तव तनाविन्दाविव तानवम् । किमेतदध्वश्रमाद्भवेत्, आहोस्विदिष्टबन्धुविप्रयोगात्, किंवा मदनधनुश्चेष्टितादित्यसरूदनुबध्यानुयुक्तो मनस्येव किं मामुपहसितुम्. किमवधीरयितुम्, किं वा निग्रहीतुम्, किं वानुग्रहीतुं पृच्छति । किमस्यै संवरणीयं विवरणीयं वेति क्षणं विचिन्त्य पुनरेव कुतो महाभावानामनुग्रहादन्यत्राभिनिवेशो भवेदिति कृताध्यवसायः सानुपूयं भगवत्यै मदनवेदनां न्यरूपयम् । वयस्यौ, किं ब्रूथः—'वयस्य, सम्यगध्यवसितम् । ततस्ततः' इति । सा च तदाकर्ण्य 'वत्स, एवमेव वत्सयापि बाल्यात्प्रभृति मन्दकलालितया मञ्जर्याप्यभिधाय सप्रार्थनं वत्ससकाशं प्रहितास्मि । शृणु तस्याः समवस्थाम् । सूते बालरसालपल्लवततिः श्वासाहता मर्मरं पाणिस्पर्शनशोषिताः सुमनसो भ्रश्यन्ति सन्तैः समम् । म्लायन्ते नयनान्तवान्तसलिलैहीं हन्त दूर्वाङ्करा दावस्टष्टमिवाद्य निष्कुटवनं तन्व्या दरीदृश्यते ॥ २१९ ॥ तद्द्र, नोपेक्षणीया बलवदस्वस्था बाला' इत्यभिहितवती भगवतीम् 'अयमहं प्रियायाः साहजिकानङ्गतरङ्गितैरपाङ्गैरेव प्रथमं क्रयविक्रयाहदशामासादितोऽस्मि । विशेषतश्चाद्य तत्रभवत्याः प्रसादेन । तद्यथाभिलपितं नियुज्यस्व' इत्यवोचम् । किं ब्रूथः-- 'सांप्रतं भगवत्यां न्यस्तभारोऽसि । ततस्ततः' इति । ततः सा भगवती दीधै निःश्वस्य । रूपलावण्यसौन्दर्यसंपदा समयोईयोः । प्रेम्णा च युवयोर्हन्त परिपन्थी वृथा विधिः ॥ २२० ॥ १. 'मदनदुश्चेष्टिता' ख. २. 'अन्यथा' ख. ३. 'सा तु' क. ४. 'विक्रयाहो' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy