SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । किं ब्रूथ:--'स्थाने खलु मनोजन्मनो जनकसमाराधनानुरोधः' इति । वयस्यौ, मा मैवम् । अनियतमनङ्गहतकस्य सौहार्दम्, यतस्तेनैव पुनः अवचितकुसुमाभिस्ताभिरालीभिरेषा ___ कथमपि पुरमारात्प्रस्थिता यावदेव । शिव शिव मम तावञ्चित्तजेनाशु चित्तं प्रमथितमवदीर्ण चूर्णितं घूर्णितं च ॥ २१७ ॥ वयस्यौ, किं थः- 'अव्यवस्थितचित्तस्य प्रसादोऽपि भयंकरः इति सत्यमेव संत्तम् । ततस्ततः' इति । ततश्चान्तरान्तरा सव्याजविवलितमुखी सुमुखीमारादिवानुसरंस्तदगारद्वारपर्यन्तं गतोऽस्मि । तदेन्द्रजालसंरम्भं समजृम्भयदङ्गजः । प्रविष्टामपि गेहं तां यन्मे प्रावेशयन्मनः ॥ २१८ ॥ अथ तावदशिथिलावयवसंधिबन्धमज्ञातकैतवकथागन्धं सिन्धुमिव जडाशयम्, जलदमिव पयोवाहम, जलदकालमिव घनमषीमलिनाम्बरम्, प्रलयानलमिव दग्धकाष्ठावलिम्, हरमिवाग्निविकारलोचनम्, नारायणमिव भक्तानुकूलव्यापारम्, शेषमिवोदग्रदर्वीकरम्, गरुडमिवाधिगतमहानसम्, कृष्णमिव क्षालितकंसमालिन्यम्, राममिव मारीचमथनम्, भीमसेनमिव दलितज्वलितकीचकशतम्, शक्रमिव पाकशासनम्, मत्तमातङ्गमिव करपिटनागरम्, वैयाकरणमिव विदितस्वरसव्यंजनप्रक्रियम्, वैशेषिकमिव द्रव्यगुणक्रियाजातिविशेषतत्समवायक्रमाभिज्ञम्, मीमांसकमिवार्थभावनास्वरूपज्ञम्, सुकविमिव विज्ञातशिखरिणीभेदम्, पण्डितमिव परिचितसकलरसपरिपाकम्, कमपि कज्जलमेचकं पाचकमपश्यम् । स च वसन्तकमुखेन पृष्टः स्वभावसरलतया तस्याः सकलमपि नामकुलशीलादिकमकथयत् । तथा हि-यथा किल इयमस्मत्स्वामिनो मलयस्य स्नुषा माधवस्य कलत्रं मञ्जरी नानी मन्दारस्य नन्दिनी । इयमद्य श्वो वा बन्धुकुलदिदृक्षया नवीननगरं गमिष्यति । यत्र पितुर्मन्दारस्य मन्दिरम्' इति । १. 'वयस्यो' क-पुस्तके नास्ति. २. 'अपचित' क. ३. 'सकलावयव' ख. ४. 'प्रदग्ध' ख. ५. 'नागरग' ख. ६. 'विक्रियं' ख. ७. 'तथा हि' क-पुस्तके नास्ति. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy