SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra किंच | ६२ काव्यमाला | किं बूथ : - ' ततस्ततः' इति । ततश्च तासु यथाभिलषितं तत्र तत्र लताकुञ्जेषु कुसुमावचयं कुर्वतीषु स्वयमेकैव सा मञ्जरी मदनमदकुञ्जरीव तत इतश्चरन्ती क्वचन माकन्दलतामन्दिरद्वारवेदिकामधिरुह्य वसति मयि किंचिदिव विवर्तितवदना मदनावेशतरङ्गितान्यपाङ्गानि व्यापारयति स्म । तथाहि । www.kobatirth.org किंच | Acharya Shri Kailassagarsuri Gyanmandir किं बहुना । स्वच्छन्द मेत्य मयि न प्रसृतानि कामं स्वावास एव निभृतं न पुनः स्थितानि । लक्ष्यान्तरेऽपि च न लब्धपदानि तस्याः पारिष्ठवानि पाथ केवलमीक्षितानि ॥ २१३ ॥ अन्यासु तासु कुसुमान्युपचिन्वतीषु कुञ्जेषु मञ्जु मदकुञ्जरगामिनीषु । सामञ्जरी तु मम सामिविलोकितेन चेतोमयं जलजमाहरदेकमेव ॥ २९४ ॥ पादाभ्यामुपरुद्धमूरुयुगलीयन्त्रेण निप्पीडितं मध्येनानृतमूर्तिना मृगदृशो नाभौ बलान्मज्जितम् । व्याकृष्य त्रिवलीषु रोमलतथा वक्षोजशैलाग्रयोः क्षिप्तं वीक्षितसायकैर्मम मनो विद्धं च बद्धं कचैः ॥ २१५ ॥ आयातं कचभारबन्धनगृहादास्यामृताम्भोनिधौ स्नातं दन्तपटीपटीपरिहितं नेत्रोत्पलालंकृतम् । चेतो मे विनिवेश्य चित्तजनुषा वक्षोजसिंहासने साम्राज्ये पुनरभ्यपेचि सुदृशः स्मेरापदेशामृतैः ॥ २१६ ॥ १. 'आनतमूर्तिना' खु. २. 'कोमलतया' ख. ३. 'अस्या मुखाम्भो' क. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy