________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः । कलहंसधवलितासु क्रीडाकुरङ्गकिशोरककवलितदूर्वाङ्कुरासु वनदेवताकरकलितबलिकुसुमकोरकितशशिकान्तमणिवेदिकासु कवेरजातटवनवीथिकासु कदाप्यदृष्टपूर्वतया निसर्गरमणीयतया च तस्य देशस्य चित्रीकृतहृदयस्तत्र तत्र संचरन्कंचन चञ्चलापुञ्जमिव जलदावतीर्ण पञ्चबाणकलितमिव काञ्चनलतालीलावनं कृतभूतलावतारमिव तारकानिकुरम्बं तरुणीकदम्बमालोकयम् । किं ब्रूथः–'ततस्ततः' इति ।
वदनपरिमलाशावल्गदिन्दिन्दिराली
वलयशिखिशिखण्डच्छन्नशालिन्यधोधः । युतिजनकदम्बे मञ्जरी तत्र दृष्टा
नवकिसलयलेखामण्डले मञ्जरीव ॥ २०९ ॥ तया च।
कालिन्दीपुलिनेषु मे विहरतश्चेतोदुकले चिरं
चित्रं गोपवधूमयं विरचितं चेतोभुवा यत्पुरा । तन्वङ्गचा मम दृक्पथेन रभसादन्तः प्रविश्य क्षणा
। त्तत्सर्व निजकान्तिकुङ्कुमरसैः कोपादिव क्षालितम् ॥२१०॥ मयरक, किं ब्रवीपि-'अपि नाम तादृशी रूपसंपत्तिः' इति । कलहंसक, किं ब्रवीपि-'कथमन्यथा हृदयमवगाहतां वयस्यस्य' इति । अथ किम् ।
अमृतमयपयोधिमब्जयोनौ हरिणकिशोरदृशो मुखापदेशात् । कलयति गलितो य एकविन्दर्जगति बभूव स एव नूनमिन्दुः ॥२११॥ अपि च ।
कुन्ताः कुटिलढगन्ता दन्ता नवकुन्दकुसुमसामन्ताः । (निःश्वस्य ।)
चिन्ता मम तु दुरन्ता तथापि संग्रहेण कथयामि ।
वान्ता तडिदेव वारिदात्कान्ता ॥ २१२ ॥ १. 'जालान्यधोधः' ख. २. 'कुन्द' क-गुस्तके नास्ति. ३. 'संक्षेपेण' ख.
For Private and Personal Use Only