SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः। शुभोदक भविष्यति न भविष्यति वा' इति । मयूरक, किं ब्रवीषि'सखे, प्रमदवनपालिकां मरालिकामाहूय कलहंसकस्य शिशिरोपचारं कारय' इति । (स्मरणमभिनीय स्वगतम् ।) प्रियाप्रस्थानत्तान्तावगमाय प्रेषिता किल मया वनपालिका मरालिका । भवतु । (प्रकाशम् ।) क्वेदानी मरालिका । कलहंसक, किं ब्रवीपि--'वयस्य, मरालिकानामग्रहणेन स्मृत्वा कथयामि । सा खल्वितः पूर्वस्मिन्नेव मुहूर्ते वयस्यमेव सुचिरमितस्ततोऽन्विष्यान्विप्यानुपलभ्य क्वापि मत्सकाशमागत्य 'अये कलहंसक, तव प्रियसखो मुकुन्दश्चिरमन्विष्टोऽपि न दृष्टः । तदागते तस्मिन्निदं तस्य करे समर्पणीयम्' इति स्वकरकुसुमपुटिकान्तरादुहृत्य पत्रिकायुगलं मद्रुपकण्ठे निधाय मया पुनरपि 'त्वमेव तदागमनपर्यन्तं स्थित्वा गच्छ' इति मुहुरुदीरितापि 'ननु तावदहं राजवल्लभेन मन्दारेण पुराबहिरद्य नक्तं कालिकाया बल्युत्सवं कारयता कुसुमानयनायादिष्टास्मि । तत्क्षणमपि विलम्बितुं बिभेमि' इत्युक्त्वा गतवती' इति । (सहर्ष स्वगतम् ।) विजहाति वक्रिमाणं विधिरधुना तावदीषदिव । शुभसूचकान्यमूनि श्रूयन्ते कतिचिदक्षराणि यतः ॥ १९८ ॥ अद्योत्सवदिने नूनं कन्यकापत्यवत्सलः । प्रस्थापयति मन्दारो भर्तुगैहं न मञ्जरीम् ॥ १९९ ॥ ततस्तत्रैव मरालिका कालिकायतनोद्याने प्रियतमा पूरयिष्यति मे मनोरथमिति तर्कयामि । (प्रकाशम् ।) सखे, एकां तावदुपनय पत्रिकाम् । किं ब्रवीषि-'इदं गृह्यताम्' इति । (गृहीत्वा विलोक्य ।) कथमिदं प्रियाकबरीभारपरिमिलितं केतकीदलमेव । तदेव निर्दिश्य प्रियावियोगविधुरं ममेवाकृतिनस्तव । परिम्लानमभूदङ्ग केतकच्छद तत्कथम् ।। २०० ॥ अथवा। आनीय सस्मितमुखीभिरलं सखीभि नरोऽसि मुग्ध इव वेणिकया नताङ्गयाः । १. 'समीपं' ख. २. 'मे' क-पुस्तके नास्ति. ३. 'कैतकदलं' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy