________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
कराम्यामाकप्य क्वणितवलयाभ्यां सरभसं
समासज्य स्वैरं कुचकलशयोरुत्पुलकयोः । गलत्काञ्चीदामन्यलघुनि समारोप्य जघने
तया बद्धो गाढं तदनु सुकृती (इत्य|क्ते ।) वयस्य, सत्यमेव सुलती भवान् । यतः । परिरम्भकेलिपरिहासभाषणै शमादृतोऽपि न वशं समेति यः । स वधूजनोऽपि यतते यदि स्वयं ग्रहणाय तत्पुरुषपुण्यगौरवम् ॥१९४ ॥ (सनिःश्वासम् ।) किं ब्रवीषि---'क्क वामेतादृशं सुकृतम्' इति । कस्तहि । किं ब्रवीषि ।
'काञ्चनपटः ॥ १९३ ॥' इति । ततस्ततः । किं ब्रवीषि-'ततश्च
प्रभातप्रायेयं रैजनिरजनि प्राग्गुरुजन
प्रबोधाद्गन्तव्यं विसृज विसृजेति द्रुतगतिः । पटान्ते लग्नं मां परिहृतवती पद्मनयना
प्रयाता पश्यन्ती विवलितमुखेन्दुः प्रतिपदम् ॥ १९५ ॥ ततः प्रभृति
अत्राकारितमत्र चुम्बितमिहाश्लिष्टं च हृष्टं पुन___ स्तन्वङ्गयात्र विसृष्टमत्र शयितं चात्रैव संभाषितम् । इत्थं कुञ्जगृहेषु तान्तसुमनस्तल्पेषु वापीतट
क्रीडासैकतकेषु च प्रतिपदं भ्राम्यामि हृप्यामि च ॥ १९६ ॥ मयूरक, किं ब्रवीषि-'सखे, नक्तंदिवमपि तया किं तवाङ्गमारूढया भवितव्यम् । प्रयाता चेन्नक्तमागमिष्यति किमेतावता' इति । एवमेतत् ।
अतनुतापमपास्य निशि प्रभाकरकलत्रमसौ मुकुलस्तनीम् ।
कमलिनीमचिरात्कलहंसको रमयतीति वयस्य किमद्भुतम् ॥ १९७ ॥ किं ब्रवीषि—'यदि तावदनेहसं प्रसूनमार्गणो मार्गणार्नुपसंहरिष्यति ततः
१. 'तथ्यं ख. २. 'मम' ख. ३. 'भवति रजनी' ख. ४. 'तदा' ख. ५. किमु तावता' ख. ६. 'उपसंहरति' ख.
For Private and Personal Use Only