SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः। यथा किल । अद्याहं शिरोवेदनापरिदूनेनार्यपुत्रेण श्वश्रूसमीप एव शयितुमादिष्टास्मि । श्वश्रूश्च मां प्रागेव शयनगृहं प्रस्थाप्य निद्रां प्रविश्य वर्तते । तदेहि तावत् । आवामशङ्ख पुरोद्याने विहराव' इति । सखे, साधु मन्त्रितं तया । श्वश्रूसमीपशायिनी मन्यते पतिः । पतिसविधशायिनी च श्वश्रूः । तदुभयतोऽपि न शङ्कनीयम् । ततस्ततः । किं ब्रवीषि–'ततश्च विततनालिकेरतरुशाखादलवलयकायमानान्तरितचन्द्रकरधोरण्या सरण्या तया तरुण्या तावदिदमेवोद्यानमानीतोऽस्मि । आनीय च सा संलापकेलिकरताडनसोपहास ताम्बूलचुम्बनकचग्रहणैर्विलासैः । उद्बोधिताङ्गजतया स्वयमेव ताव त्प्रावर्तत प्रथमतो रतये नतभ्रूः ॥ १९० ॥ किं च । कण्ठाश्लेषिणमुन्नतस्तनभरश्रोणीतटग्राहिणं संसक्तोरुयुगं गृहीतजघनप्रावारमप्यन्ततः । प्रागेव श्लथबन्धमिन्दुवदना गाढावमर्दासहं विज्ञायात्यजदाशु काञ्चनपटं ब्रीडाकुलापि क्षणम् ॥१९१॥' इति । मयूरक, सहासं किं ब्रवीषि-'काञ्चनपटमित्यभिधाय मामुज्जीवितवानसि। येत आत्मानमेव तादृशमत्यजदिति कथयसीति भीतोऽस्मि' इति । (सस्मितम् ।) भवतु । ततस्ततः । किं ब्रवीषि-'वयस्य, ततः परम् । प्रागल्भ्यं पुरुषायिते मम पुरः पश्यति संनद्धया तन्व्या ताम्यदुरोजयापि सुचिरं विक्रम्य रम्यं तया । श्रान्ता वक्षसि मे निपत्य च पुनः सापत्रपं सस्मितं साकृतं च समीक्षितं मृगदशा यत्तत्कथं कथ्यते ॥ १९२ ॥ एवमनेकविधविहारैरायामवतीमपि यामवती विरामवतीमाकलय्य यावदेव पुनरहमेकवारमालिङ्गितुमुद्यतोऽस्मि, तावदेव १. परिदयमानेन' ख. २. 'द्रागेव' क. ३. 'यतः किल' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy