SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५० काव्यमाला | सखे कलहंसक, कथय कथमनया सममनायासमत्रैवोद्याने मिलितोऽसि । किं ब्रवीषि - 'कथमनायासमासाद्यते परकलत्रम् । शृणु तावत् । वोक्षाविभ्रमचेष्टितैरपि मनो विज्ञातुमेवाक्षमं ज्ञातेऽप्यालपितुं न शक्यमथवा संभाषितापि क्रमात् । नेतव्या स्ववशं कथं वशमथानीतापि कृच्छ्रात्कचि निर्विघ्नं पुनरन्ततः परवधूरासाद्यते वा न वा ॥ १८३ ॥ इति । (आत्मगतम् । एवमेतत् । अत्रायं सौदामिनीकामुको मयूरक एवोदाहरणम् । अथवा मय्येव तिष्ठति भनभागधेये किमन्यगवेषणया । (प्रकाशम् ।) एवमेतत् । किमालापः स्वैरं क्षणमपि किमेकत्र वसतिः किमाश्लेषो गाढं किमु हृदयतृप्तिः किमथवा । रतान्ते विश्रान्तिः किमिह परकीयासु घटते तदप्याश्रयै नः परिपतति तास्वेव हृदयम् ॥ १८४ ॥ तत्कथमासादिता कमलिनी वयस्येन । किं ब्रवीषि — 'तत्कृते मत्कृतायासो मासमेकं नक्तंदिनमपि कथ्यमानो न पार्यत एव । श्रुत्वा वा ततः किमस्ति प्रयोजनम् | फलितं तु कथयामि । सा खलु प्रथमावलोकनप्रभृति प्रकर्षेण वा प्राचीनपुण्यपरिपाकानाम्, अनुग्रहेण वा शुभग्रहाणाम्, आनुकूल्येन वा कुलदेवतानाम्, अनुरोधेन वा मधुमासवासराणाम्, दाक्षिण्येन वा दक्षिणानिलानाम्, गौरवेण वा कोकिलगुरूपदेशानाम्, महिमातिशयेन वा मधुमदचपलमधुव्रतविरुतमन्त्राक्षराणाम्, प्रभावेण वा प्रसवरजः सिद्धच - र्णानाम्, महत्तया वा मदनमहाराजविभूतीनाम्, किंबहुना स्वकीयेनैव परतापासहिष्णुना स्वभावर्तेरलेन रसिकसमाजहृदयरञ्जनेन परप्रार्थनाभङ्गभीरुणा निसर्गसरसेन प्रकृतिविशेषेण वा क्रमेणास्य जनस्योपरि ग्राहितरागानुबन्धा बन्धूनपि श्वश्रमपि श्वशुरमपि पतिमपि परिजनमप्यतिसंघाय कृतसमयबन्धा यदा यदा स्वयमेव मामभिगन्तुमुद्यतवती तदा तदा नि १. 'हृदयसाहित्यमथवा' ख. २. 'स्निग्ध' ख. ३. 'महाराजाज्ञा' ख. ४. 'सरसेन' ख. ५. 'उद्युक्तवती' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy