SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९ मुकुन्दानन्दभाणः । (वनं प्रविश्य ।) सखे, पश्य पश्य । मन्दमन्दमुपगम्य मारुते मञ्जरीकुचकिशोरकस्टशि । रागवत्यपि रसालवल्लरी पल्लवेन पिदधाति पाणिना ॥ १७९ ॥ (पुनर्विलोक्य ।) कोऽयमपरिशीलितसंनिवेश इव, आविष्ट इव, मुक्तचैतन्य इव, मुषितेन्द्रिय इव, अनियतमितस्ततो विवशमेव कथंचन बलादात्मानं संचारयन्क्वचिदपि न विश्राम्यति । (निर्वर्ण्य ।) किं ब्रवीषि-'वयस्य, कलहंसको मदनविह्वलः परिभ्राम्यति' इति । (उपसृत्य ।) वयस्य, किमितस्ततो भ्राम्यसि । किं ब्रवीषि-'किं करोमि । अत्राकारितमत्र चुम्बितमिहाश्लिष्टं च दृष्टं पुन स्तन्वङ्गयात्र विसृष्टमत्र शयितं चात्रैव संभाषितम् । इत्थं कुञ्जगृहेषु तान्तसुमनस्तल्पेषु वापीतट__ क्रीडासैकतकेषु च प्रतिपदं भ्राम्यामि ताम्यामि च ॥ १८०॥' इति । कया गणिकया मुपितचेतनो मुह्यसि । किं ब्रवीषि-'आः, किमुच्यते गणिकयेति । नहि गणिकाजनकामुकस्तव वयस्यः । किंतु प्रभाकरकलत्रस्य कैमलिन्यः कैरपि विभ्रमविभ्रान्तस्वान्ततया मेनागपि नात्मनः प्रभवामि' इति । सखे, साधु साधु । उपरिप्लवस्वभावाः प्रायो गणिकाश्च तार्णकणिकाश्च । कथय कथं गाहन्तां रसिकानां मनसि सरसि च स्वरसात् ॥ १८१ ॥ मयूरक, सशिरःकम्पं किं ब्रवीषि--'सदृश एव कमलिन्यां कलहंसस्य रागानुबन्धः । अपि च तादृशमेव तदीयं सौन्दर्यम् । यतः । वीथीमुपैति यदि नाम विलासिनी सा देवोत्सवादिदिवसेषु यदाकदाचित् । व्याजात्कुतोऽपि विनिवृत्य पुरोजुषोऽपि पश्चालगन्ति परिफुल्लदृशो युवानः ॥ १८२ ॥' इति । १. 'भूताविष्टः' ख. २. 'कथं' ख. ३. 'ते' ख. ४. 'पद्मिन्याः कैरपि विलासः'ख. ५. 'मनागपि' ख-गुस्तके नास्ति. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy