________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
छायामायतनालपत्रकपटच्छतोदितामाश्रिता
कुर्वाणा निजपक्षपाति भुवनं कोशोदयामोदिनी । सानन्दं कविभाषितानि कलयन्त्याबद्धपद्मासना
__लक्ष्मी विन्दति राजहंसपरिषन्नामानुरूपामियम् ॥ १७५ ॥ (पदान्तरं गत्वा ।) इदमिदानीमविरलतरुनिकरनिवारितरविकरप्रवेशं रविकरप्रकाशचकितगुरुतिमिरशरणीकरणीयलतागृहप्रवेशं वचन समुल्लसितशताङ्गमिव विकसदशोकशाखाभिः, क्वचिदुन्नतमातङ्गमिव निविडतमतमालतरुभिः, क्वचिदुदारतुरंगमिव क्रीडाकुरङ्गैः, वचन वाचालबन्दिवृन्दमिव कलकलायमानकोकिलकुलैः, कंचन पुरोत्तम्भितपताकमिव राजरम्भाभिः, क्वचिद्धान्तकुन्तमिव केतकीप्रसूनैः, क्वचिदुद्यतकरवालमिव चूतप्रवालैः, कचिदुद्दतातपत्रमिव शतपत्रैः, क्वचिदुहूतचामरमिव चपलकलहंसैः, क्वचिदुपनतगीतमिव मधुरमधुकरझंकारैः, क्वचिदुदञ्चितनटनचटुलवारनितम्बवतीनिकुरम्बमिव मलयानिलचलितललितलताभिः, क्वचिदुपरचितवितानमिव कायमानैः, क्वचिदुचितपटमण्डपमिव कुसुमितलतानिकुञ्जः समन्ततश्च कुसुमशरनृपशिबिरमिव पुनरनेन सकलेनापि स्फुरति पुरः पुरोद्यानम् । अपि च ।
मधुराप्सरोविलासा मधुरसकलनाकुलालिसहकारा ।
अक्षतरूपश्लाघ्या वनिताजनतेव भाति पुरवन्या ॥ १७६ ॥ किंच।
अलिकलसदगरुतिलका चलदलकान्ता सुवर्णकृतमाला ।
तरुणवयोरमणीया तरुणीलीलां दधाति वनरेखा ॥ १७७ ॥ अन्यच्च ।
मृदुलवलिललितमध्यं पृथुलकुचं चारुविपुलभूजवनम् । नागस्टहणीयं स्फुरति वनं यौवनं च नारीणाम् ॥ १७८ ॥
१. 'दल' ख. २. 'क्वचिदुत्तम्भित' ख. ३. 'उपवन' क. ४. निकुवैः' क. ५. 'पुनः' क. ६. 'अपि च ख.
For Private and Personal Use Only