SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । ४७ पथि किं वृथालापेन' इति । तहि गच्छ । वयमपि पुरोद्यानवाटी प्रविश्यातपमपनेष्यामः । सखे, पुरोद्यानपद्यां प्रदर्शय । किं ब्रवीषि---'इत इतः' इति । (परिक्रम्यावलोक्य च सकौतुकम् ।) कथमत्र सरसि मध्याह्नकस्नानमाचरन्ति महीसुराः । (विहस्य ।) किं ब्रवीषि-'अनवरतजडाशयपरिचयादेव नूनमेषां श्रोत्रियजडानां प्रतिदिनमतिशेते मतिजाड्यम् । किं च । सितासितमरित्प्रमुखमहातीर्थराशेरतिमहत्तरमिदं मरकतनामकं सरः पारलौकिकसुखसाधनमिति पौराणिककथामनुधावतामवनिमुराणामनिवारणीयमम्भोवगाहनव्रतम्' इति । ननु रहस्यविदामत्रैव सुखमस्ति । यतः। दरहासविलोकनापदेशान्मिलिते यत्र सितासिते तटिन्यौ। सुदृशां पुरतो विगाह्य तस्मिन्सुखमत्रैव भजन्ति केऽपि धन्याः॥१७१॥ अन्यच्च । भङ्गोप्तलाम्बुरुहकम्बुमृणालकोक शैवालवीचिसलिलभ्रमसैकतानि । यत्रेभहस्तकमठस्फुरितानि भान्ति क्रीडन्ति तत्र रसिकाः सततं सरस्याम् ॥ १७२॥ किं ब्रवीषि--'सखे, दीयतामितो दृष्टिः । अम्बुसिक्तविमलाम्बरान्तराद्विम्ब्यमानजघनोरुमण्डलाः । उत्तरन्ति सरसोऽद्य बालिकाश्चित्तलोभकरसिद्धमूलिकाः॥१७३॥' इति । (दृष्ट्वा स्मरणमभिनीय । ) वयस्य, विमलसलिलासिक्तासक्ताम्बरप्रतिबिम्बितां ___ मुहुरवयवश्रेणीमेणीदशां मम पश्यतः । स्मरति तदलं चित्तं व्यक्तं यदारचयन्पुरा मुपितवसने मन्दं कुऑ गते मयि गोपिकाः ॥ १७४ ॥ पुनः किं ब्रवीषि—इतोऽपि विततनलिनदलच्छायायां विकचराजीवराजीविरचितावतंसा राजहंसावली' इति । (निर्वर्ण्य ।) १. गच्छ गच्छ' क. २. 'श्रोत्रियजडानां' क-पुस्तके नास्ति. ३. 'गाथा' ख. ४. 'कमल' ख. ५. 'मन्दं' क. ६. 'अपि' क-पुस्तके नास्ति. ७. 'विरचितनिवासा' ख. ८. 'निर्वये क-पुस्तके नास्ति. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy