SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। मायाविन्यतिकर्कशात्मनि दयादूरे मृषाभाषणे मिथ्याबाह्यविडम्बनैकचतुरे श्रीकृष्ण कि मे त्वयि । आस्ते कोऽपि वियोगभीरुरनिशं कृष्णो ममान्तर्बहि__ य पश्यामि च संलपामि च मुहुः श्लिष्यामि हृष्यामि च॥१६७॥ इति। (सहर्षमात्मगतम् ।) कथं वारयुवतिजातेरपि प्रेमभावबन्धुरं हृदयम् । (प्रकाशम् ।) सखि, जानामि ते साहजिकरागरमणीयं चेतः । भवतु । केयं पार्श्ववर्तिनी । यस्याः किंचित्किचिदुदञ्चतीव वलयाकारेण वक्षःस्थली मन्दं मन्दमिवाधिरोहति वचोलीलाक्रमे वक्रिमा । स्तोकं स्तोकमिवाविरस्ति सरसव्रीडाविलासो दृशो वारं वारमवेक्षते च मदनो वस्तुं वराङ्गया वपुः ॥ १६८ ॥ किंच। पदमधरदले विधाय रागः प्रविशति संप्रति मानसं मृगाक्ष्याः । पतति कुटिलतापि कुन्तलेभ्यो विपुलविलाचनलोलवीचिकास ॥१६॥ किं ब्रवीषि-- 'भाव, इयं ममैव कनीयसी शशिरेखा' इति । (सप्रत्यभिज्ञानाश्चर्यम् ।) कथमेतावतैवानेहसा तावदियमियतीमाकृतिसंपदमधिगता । मम त्विमामालोकयतः अव्यक्तवर्णमपि कर्णरसायनं ब प्रायः स्खलत्पदमपि प्रियदर्शनं यत् । आभाषणं च गमनं च तदेव साक्षा दद्यापि मे भवति शैशववृत्तमस्याः ॥ १७० ॥ तदस्या अपि कौमारमहमेवापहरिष्यामि । मयूरक, किं ब्रवीषि'विदग्धः खलु भवान्मुग्धाङ्गनाजनमनोरञ्जनकलामु' इति । यद्येवमङ्गीकरोति प्रेयसी तारा, तार्ह सफलं मे वैदग्ध्यम् । सखि, किं ब्रवीपि-~~-'यदुपभुक्तशेषं किल तयापि भोक्तव्यम् । गच्छ गच्छ । कठोरातपेन पादनवपचे १. 'प्रेमबन्धुरं' ख. २. सहजानुराग' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy