________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः ।
४५
किं ब्रवीषि-'एवमेतत् ।।
उच्चैरुन्नमनाद्बुजालतिकयोरुन्नम्रितौ पार्श्वयो___राद्रीनानखवणाङ्कवलयावादर्शयन्ती कुचौ । बिभ्राणा चुबुकाञ्चलेन सिचयं बिम्बाधरापाटलं
कान्ता मुश्चति निःसहातपपरिश्रान्ता शनैः कञ्चकीम् ॥१६॥' इति । (पुनर्विलोक्य ।) कथमग्रत एव समुदग्रकनकदण्डकाण्डकलितपाण्डुरातपत्रपुण्डरीकमण्डलच्छायान्तरितधनातपा कापि कमलमुखी सखीकरमवलम्ब्य सलीलमभिमुखीभवति । (निर्वर्ण्य ।)
करैर्हारं हारं मुखपरिमलं मोहनदृशो
रुचां नेता नेता कमलममलं बान्धवमिति । रुषा छत्रछद्मा तिरयति रवि शीतकिरणो
दुरालोकं लोके रिपुविभवमालोकयति कः ॥ १६४ ॥ (सप्रत्यभिज्ञम् ।) कथमियमस्मदपहृतकौमारा नातिचिरादेव समग्रयौवनावतारा तारा । यतः ।
उद्दं प्रतिपद्य पक्वबदरीभावं समेत्य क्रमा
त्पुंनागाकृतिमाप्य पुगपदवीमारुह्य बिल्वश्रियम् । लब्ध्वा तालफलोपमां च ललितामासाद्य भूयोऽधुना
चश्चत्काञ्चनकुम्भजम्भणमिमावस्याः स्तनौ विभ्रतः ॥ १६५ ॥ (आलिङ्गय । आत्मगतम् ।)
अलं क्रोडीकतु यद पहृतमप्यङ्गमभव
दुजेनैकेनापि प्रथमपरिरम्भे मृगदृशः । तदेवाद्य प्रेम्णा गतपि मदेकैकरसतां
न माति प्रोत्तुङ्गस्तनभरतया बाहुयुगले ॥ १६६ ॥ (प्रकाशम् ।) अयि, अपि नाम यदाकदाचन स्मरसि भजंगशेखरम् । (सोपालम्भम् ।) किं ब्रवीषि-'किमिति स्मरामि कितवाचारं भवन्तम् ।
१. 'कंचुलीम्' क. २. 'लोको' क. ३. 'तारा' क-पुस्तके नास्ति. ४. 'अयि' ख-पुस्तके नास्ति. ५. 'कदा वा' ख.
For Private and Personal Use Only