________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
किं बघीषि-'मम तु पुनरेवं प्रतिभाति ।
कान्तारलीनमिव सन्तमसं विचेतु
माकाशपादपशिखामधिरुह्य भानुः । भूयोऽप्ययं पतनभीत इवाखिलाशा
शाखावलि निजकरैर्युगपद्विभर्ति ॥ १५८ ॥' इति । (समन्तादवलोक्य ।) अहो स्थावराणामपि शरणागतपरित्राणपरायणता । पश्य पश्य । (अङ्गुल्या दिनकरमण्डलं निर्दिश्य ।)
रोषादेष करान्प्रसार्य कुरुते संनाहमहांपति
श्छायां नाशयितुं निजातपभयत्राणोद्यतामद्यताम् । (पादपानिदिश्य ।)
एते भूमिरुहास्तु पल्लवकरैः संरुध्य भास्वत्करा
न्गोपायन्ति किं ब्रवीषि
न को नु वा परपरित्राणाद्यत त्रायते ॥ १५९ ॥ परंतु छायापरिपालनं न पादपानां प्रशंसापदम् ।
ये पालयन्ति निरुपाधि फलादिभिः स्वैः ___ पान्थान्कुतोऽपि विषयात्वचन प्रयातान् । स्वाकारमेव दधती स्वशरीरजातां
छायां न पान्तु तरवः कथमातपात्ते ॥ १६० ॥ इति । (अन्यतो दृष्ट्वा ।)
कमलोदरमकरन्दं सपदि कदुष्णं विहाय सानन्दम् ।
मदशिशिरकरटपालीमिभकलमानामुपैति मधुपाली ।। १६ १ ॥ (कतिचित्पदानि गत्वा ।) इयमिह
सिक्तं स्वेदपयोभिः सक्तं करजव्रणेषु चाद्वेषु । सीत्कृतिसंकुचदधरं कभुकमवला शनैरुदश्चयति ॥ १६२ ।।
For Private and Personal Use Only