________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः । कारणवैरिणा सदृशसंमायोगविघटनकुटिलेन परश्रेयोविघातकारिणा प्रकतिदारुणेन करुणागन्धविधुरेण वात्सल्यकथानभिज्ञेन दुर्विदग्धेन विधिना बहूनपि वासरान्न केवलं विफलमनोरथा कमलिनी कृता, किंत्वेसावहमपि शोकमलिनीकृतः। यस्तने तु पुनरहनि गभस्तिमालिनि शनैरस्तगिरिमस्तकादवतीर्णे चरमार्णवमुपरि परिलग्नमयूखमञ्जरीभिरिव रविपतनपरिक्षुभितजलधिजलोत्पतितवाडवशिखाभिरिव विरहिजनहृदयतार्णगृहवितीर्णपरिशिष्टमदनविसृष्टदहनहेतिभिरिव संध्यारागरुचिभिरापाटलेषु पयोदपटलेषु, दुर्विषहतंदुष्णवेगासहिष्णुतयेव तारतरविरावमुखरमुखमभीक्ष्णकृतपक्षपुटविधूननं शिशिरकुसुमरसपरागपिहितनिजहितकुलायमहीरुहं गतेषु विहंगमेषु, तदात्व एव तदालोकनमयादिव श्रिया घटितदलकवाटेषु कमलवाटेषु, तत्कृतदुरन्तसंतापादिव संजातविस्फोटेषु कुमुदमुक्तास्फोटेषु, समुत्तु
तदङ्गारकणिकास्विव दर्शितावतारासु तारासु, गगनतलगाढलग्नाभिरतिबहुलतया पुनरवगलन्तीभिस्तदुज्ज्वलकजलधूलिभिरिव तिमिरपालिभिराक्रान्तेषु दिगन्तेषु, विस्फारतदीयविस्फुलिङ्गेष्विव विद्योतितविपिनाङ्गणेषु ज्योतिरिङ्गणेषु, किंच विफलजनचक्षुषि विस्फुरितसकलतारकारोचिषि प्रचीयमानकौशिकढगायुषि दूरदृश्यानलाचिंषि दूयमानचक्रवाकहृदयनुषि चञ्चरीकपरिपीयमानकुवलयमकरन्दविग्रुषि उद्वेलचकोरिकातृषि उन्मिषदोषधिज्योतिषि उदग्रदीपिकात्विषि उद्बोधितकुसुमधनुषि शिशिरमरुदनुमीयमानसरसि प्रनष्टसंध्यारागतेजसि अपरिदृष्टचन्द्रमसि अप्रविष्टचन्द्रिकामहसि तस्मिन्ननेहसि, प्रबलतमःपटलपटकृतावगुण्ठनतया केनचिदप्यलक्ष्यमाणो निभूतपदक्रमं क्रमात्प्रभाकरगृहप्राङ्गणं प्रविश्य तस्मिन्नेव पूर्वकृतसंकेते स्नानगृहे न्यवसम्' इति । तर्हि संप्रदायज्ञोऽसि ।
१. 'संयोग' ख. २. 'सा विवाहमपि' क. ३. 'जठरोत्पतित' ख. ४. 'ग्रह' क. ५. 'पयोधर' ख. ६. 'तदुत्थ' ख. ७. 'गमेषु' क. ८. 'तदा तदाविलोकन' क. ९. "विस्फोटासु कुमुदमुक्तास्फोटासु' क. १०. 'समुत्तरङ्गदुत्तुङ्ग' ख. ११. 'विमुषि' क. १२. 'स्नाननिकेतने' ख.
For Private and Personal Use Only