SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४२ www.kobatirth.org परिनृत्यति कुचभारः किं ब्रवीषि - Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | प्रत्यग्रगणिकाया अपि न लज्जाकणिका' इति । सुतनु, किं ब्रवीषि - 'भाव, कुञ्जरमारुह्य किमिति कुटिलद्वारपथेन गन्तव्यम्' इति । (सबहुमानम् ।) साधु मल्लिके, साधु । सखे, किं ब्रवीषि - ' नैवं खलु वक्तव्यम् । किंतु कथं वराहमारुह्य पुरीषं निषेद्धव्यम्' इति । मल्लिके, त्वमपि किं ब्रवीषि — 'अरे मयूरक, कुलत्थयूषार्थिनस्तव कुतो मन्दुरातुरगाधिकारः । गच्छ गच्छ । किं दाता किमदाता वा त्वम्' इति । सखे, किं ववीषि -- ' कथमियं गणिकाया जननीव कथयति दुरक्षराणि । (अपवार्य 1 ) सखे, विरम विरम । कुटिलान्तरङ्गाः खलु कुरङ्गाक्ष्यः । किं ब्रवीषि -- 'कुटिलतरान्तरङ्गा इति वक्तव्यम् । किं च । किं महे कुटिलतीक्ष्णकठोरभावा नाङ्गेषु मान्ति सुदृशां किमुतान्तरङ्गे । यत्तावदाद्यमलकेषु दृशोद्वितीय मुज्जृम्भते तदितरत्कुचकुम्भयो ॥ १९९ ॥ भवतु । चन्द्रिकामालोक्य सोढव्यम्' इति । चन्द्रिके, किं ब्रवीषि — मयूरक, त्वयि किंचित्प्रथममुदितमविनीतं तदनु यौवनमददुर्ललितायामस्यामपि किंचिदुदचितम् । किमेतावता । पश्यतु कन्दुकक्रीडाचातुर्यमस्याः पल्लवपाणेः । अयि मलिके, मुधा मा कृथाः कलहं परिहासकुतुके मयूरकं । विहर तावत्कन्दुकेन' इति । ( सहर्षमात्मगतम् ) दिष्टया मालकामयूरको समीकृतवती चन्द्रिका । ( प्रकाशम् ) सखे, पश्य पश्य । गुणिनमपि सुवृत्तं कन्दुकमालोक्य ताडितं तन्व्या । 'कर्कशवृत्तस्य कुत्र कारुण्यम् १५२' इति । वयस्य, दीयतामितो दृष्टिः, यत्र शुकमालापयति शुकभाषिणी ( इति विलोक्य सकौतुकम् ।) १. 'श्वाङ्गेषु यान्ति' क. २. 'उदीरितं विनीतम्' क्र. ३. छन्दोभङ्गदूषितोऽयमार्या प्रथमपादः. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy