SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । सखि, सव्रीडविलक्ष किं ब्रवीषि-'अतएव भवता लघुतामानीतास्मि' इति । (स्वगतम् ।) कथामियमुपालम्भगर्भवचनसंदर्भण मामधिक्षिपति । तदेनामन्यतो नयामि । (प्रकाशम् ।) सखि, का सा कन्दुकक्रीडाकलितकौतुकाक्रान्ता कान्ता । किं ब्रवीषि-'इयं ममैव मातृष्वस्त्रेयी मल्लिका नाम । मत्कृतस्नेहानुबन्धा बन्धुजनमतिसंधाय मामनुसंगता वर्तते' इति । (सानन्दम् ।) इदमपि ममैव भागधेयम्, यत्करगलितामिव काञ्चनोमिकामेकामेव त्वां विचिन्वता मौक्तिकमालिकेव पुनरियं मल्लिका मया त्वया समं समासादिता । तदधुना यदि न कुप्यसि, किंचित्ष्टच्छामि । किं ब्रवीषि-'टच्छ' इति । (सानुरागम् ।) उन्मीलत्पुलकं कपोलतलयोरुद्धान्तमीष वो रालोलं नयनान्तयोमयि पिबत्यास्यं प्रवालाधरम् । व्याधूतारुणपाणिकङ्कणरवव्यामृष्टमस्या वचो मा मा मुञ्च विमुञ्च मामिति मनः श्रोतुं समुत्कण्ठते ॥१४७॥ (सस्मितम् ।) किं ब्रवीषि--'त्वमेव तावदीप्सितमिमां पृच्छ, स्वयमेव सा कथयति' इति । भवतु तावत् । इमामालापयामि । (मल्लिकामालोक्य ।) अयि, पतन्नपि पयोजाक्षि पादमूले तवासकृत् । कन्दुकः करलग्नोऽयमिति संताज्यते कथम् ॥ १४८ ॥ किं ब्रवीषि'पतितमपि पादमूले पश्चादुत्पतनशीलमविलम्बम् । कन्दुकमपि कापुरुषं करतललग्नं न ताडयेत्का वा ॥ १४९॥ इति । अयि, किमेतावता हीयते। तरुणीपदपल्लवप्रहारं तेरुणानां परमं वदन्ति भाग्यम् । परिपाटलतत्करप्रहारः परिभावः किमयं वरोरु तेषाम् ॥ १५० ॥ मयूरक, किं ब्रवीषि-'सखे, कथमस्याः कुलक्रमागतगणिकाक्रमाया इव १. 'वैलक्ष्यं' ख. २. 'आनीताः स्म इति' ख. ३. 'कासौ' ख. ४. 'व्याख्यातं' ख. ५. 'अये' ख. ६. 'कन्तुकः' ख. ७. 'पुनः' ख. ८. 'कन्तुकं ख. ९. 'तरुणा ये क. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy