________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः । करालम्बं दातुं तदपि बत नासीदति सखी
कथं कल्याणीयं मदभिमुखमुत्तिष्ठति हठात् ॥ १३७ ॥ किं ब्रवीषि-'कथमियं वयस्यमालोक्य चिरपरिचयसमुचितप्रणयेव सविनयमुत्तिष्ठति' इति । अथ किम् । इयमङ्गराजामात्यस्य कलानिधेः कलत्रं चन्द्रिका नाम । किं ब्रवीषि-'केन पुनरनवद्याङ्गी गणिकापद्यामवतारिता' इति । ननु भगवता भावजेनैव । किं ब्रवीषि-'युक्तमाह वयस्यः।
विसदृशघटनाकुटिलं पङ्कजयोनि चिराय परिभूय ।
करुणाशाली कामः कान्तानां कान्तमनुगुणं कुरुते ॥ १३८ ॥ भवतु । तदियं वयस्येन गणिका सती परिगृहीता, किं वा कुलाङ्गना सत्येव' इति । (सावज्ञम् ।) किं गणिकाजनं गणयति साधारणो भुजंग इव तव प्रियसखो भुजंगशेखरः । किं ब्रवीषि—'एवमेतत् ।
क्क पंणावधिकं प्रेमनटनं पण्ययोषिताम् ।
पल्लवेषु परस्त्रीणां क्व च नैसर्गिको रसः ॥ १३९ ॥ कि च ।
शीलं नाद्रियते कुलं न मनुते नैवानुरुन्धे गुरू
नारीणां कुलदेवता किल पतिस्तं चाप्यहो मुञ्चति । किं ब्रूमः परयोषितः पुनरसावन्योऽनुरागक्रमः
स्वप्राणानपि जातुचिन्न गणयत्येषा विटाथै यतः ॥ १४०॥ इति। वयस्य, पणाशयैव परिभूयते गणिकाजनगौरवम् । न चेदेवं तदा
अशङ्कितनखक्षतं पुनरलज्जमुक्ताम्बरं
प्रवृत्तकरणक्रम प्रचुरचुम्बनाडम्बरम् । सशब्दकरताडनं सपरिहाससंभाषणं
न कस्य सुरतं मनो हरति वारवामभ्रुवाम् ॥ १४१ ॥
१. 'नासीदिति' क. २. 'भुजंगेश्वरः' क. ३. 'पणोपाधिक' ख. ४. 'मुक्ताम्बरप्रवृत्त क.
For Private and Personal Use Only