SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। दैवादायतने क्वचिन्मिलितयोः साशङ्कमुत्ताम्यतो चेष्टाद्यैरभिजानतोरथ तयोरासीदनङ्गोत्सवः ॥ १३२ ॥ तत्किचित्कालं सोढव्यो विरहवेगः । किं ब्रवीषि—'कथं सोढव्योऽप्रतीकारोऽयं मदनशरसंतापः' इति । ननु प्रेयसीचिन्तयैव प्रतिक्रियताम् । किं ब्रवीषि—'सखे, प्रतिकलमपि चिन्तयामि । __ कथं कामेषुदलितमङ्गमगावणं भवेत् । प्रिंयागुणानुसंधानसंधानकरणी न चेत् ॥ १३३ ॥ तदपि संतापयत्येव संताप इति । वयस्य, अद्भुतमनङ्गहतकस्य चरितम् । निःसारं क्रमशो धनुः प्रतिपरुः किं मार्गणैः किं गुणै__मन्दं स्यन्दति वा न वा तरुलतागुल्माहतः स्यन्दनः । लीनं पाथासि यस्य लक्ष्म च परं निर्दग्धमूर्तिः पुनः ___ सर्वाङ्गीणमहो तनोति स कथं संतापमद्य स्मरः ॥ १३४ ॥ (पदान्तरं गत्वा । अग्रतो दृष्ट्वा च ।) सखे, पश्य पश्य । किं ब्रवीषि-मया सांप्रतमालोकनीयानामतिरमणीयानामाकृतीनां परं पारमालोकितमेनामालोकयता । मन्ये च तावदित्थम् । अस्याः लावण्याम्बुनिधौ स्मरेण मथिते रोमावलीभोगिना निक्षिप्य स्तनमन्दराद्रिशिखरद्वन्द्वं कुरङ्गीदृशः । जातं लोचनवीचिकासु गरलं बिम्बाधरे चामृतं तेनाद्यं विदधाति तापमपरं तूज्जीवनं कामिनाम् ॥ १३५ ॥ किं च। अधरे पल्लवरागो विटपसमाश्लेषविभ्रमो बाहोः । ____ अस्या भुजंगभोगप्रागल्भ्यं स्फुरति किं च रोमाल्याम् १३६' इति । (घुनर्विलोक्य ।) स्तनाभोगो मध्यं तरलयति तावद्रुतया पृथुश्रोणभिारश्चलनमपि रुन्चे चरणयोः। १. 'प्रियानुगुणसंधानसंजीव' ख. २. 'संप्रति मया सांप्रतं' क. ३. 'विश्रमो' क. ४. 'पुनर्निर्वर्ण्य' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy