________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः ।
मागतोऽस्मि' इति । भवतु । वयस्य, यदा कदापि किं तथा कथित पूर्वमङ्गीकारवचनम् । किं ब्रवीषि — 'कथमपूर्व कथ्यते । यतः ।
सल्लापे सिचयग्रहे कुचतंट स्पर्शेऽधरास्वादने
नवीविश्लथने च किं नु बहुना काले च तस्मिन्नपि । जल्पन्त्यप्रकटं निषेधवचनान्येवासकृत्कर्णयो
3
किं ब्रवीषि - 'किमिदमहं न जानामि ।
रङ्गीकारवचः पराम्बुजदृशां केन श्रुतं कथ्यताम् ।। १२९ ।।' इति । सखे, न जानासि ।
पराङ्गनानां सुरताभ्यनुज्ञा मन्दोदिता एवं निषेधवाचः ।
३७
क्रीडानिपेधोक्तिमयी यदासां निषेधगाथाप्यतएव शास्त्रे ॥ १३० ॥ परंतु न तेषामपि निषेधवचसामवसरो लब्धपूर्वः' इति । कथमविदिताशयामनुवृत्तोऽसि । किं ब्रवीषि -- 'अस्ति किंचिदनुरागबीजम् । तथाहि ।
I
सव्याजं सदनं समेयुपि मयि श्वश्रूसमक्षं तया व्रीडापदिवाभिनीय शनकैरुत्थाय यान्त्या बहिः ।
यत्किचिद्वपदिश्य सामिवलितग्रीवं पुनर्वीक्षितं
तन्वङ्गया' इति ।
1
( सशिरःकम्पम् । ) । विश्वसनीयमिदमनुरागवीजं भवति । किं ब्रवीषि - 'तत एव तत्र सुदृशि स्निह्यामि मुह्यामि च १३१' इति । यद्येवमद्य श्वो वा भविष्यति युवयोरपि मन्दाकिनीमरालयोरिव विनैवायासं समागमः । किं ब्रवीषि - ' कथमिव तयोर्व्यतिकरः संवृत्तः '
इति । शृणु ।
अन्योन्यं लेलितैरपाङ्गवलनैराविष्कृताकृतयो
रौत्सुक्याकुलयोः कथं कथमिव प्राप्तक्षपामध्ययोः ।
१. 'पूर्व' ख. २. 'ती' ख. ३. 'किमिदमहं न जानामि' ख- पुस्तके नास्ति. ४. 'किंचन' ख. ५. 'चलितैः' ख.
For Private and Personal Use Only