________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
किं ब्रवीषि-कराङ्कगता गता' इति । (विमृश्य ।) तर्हि । कठिनहृदयः कामम् । किं ब्रवीषि-'वयस्य, किं त्वया वक्तव्यमिदम् । कठिनहृदय एवाहं योऽयं प्राणवल्लभाप्रयाणेऽपि प्राणिमि' इति । (स्वगतम् । कथम यमन्यथा मन्यमानो मन्युमेव प्रविशति । (प्रकाशम् ।) सखे, किं त्वां कठिनहृदयं ब्रवीमि । किंतु ।
कठिनहृदयः कामं कामः कथं कुशलं तव ॥ १२६ ॥' इति वक्तुं प्रवृत्तोऽस्मि । किं ब्रवीपि ---- 'वयस्य, अहमप्येतदेव
कुटिलचिकुरा कुन्दस्मेरा कुरङ्गविलोचना
कमलवदना कम्बुग्रीवा कठोरपयोधरा । कनकलतिकाकान्ता कान्ता कराङ्कगता गता
कठिनहृदयः कामं कामः कथं कुशलं मम ॥ १२७ ।।। इति वक्तुं प्रवृत्तोऽस्मि' इति । (सचमत्कारम् ।) तदाक्योरेकमेवान्ततो विवक्षितं संवृत्तम् । उक्तिप्रत्युक्तिकया वन्ततोऽप्यकितं संविधानवैचित्र्यं संपन्नं भवतु । कोऽत्र विरोधः।
का सा कनकवर्णाङ्गी त्वत्कराङ्कगता गता। कि ब्रवीषि
'सखे सौदामिनी नाम कान्ता कादम्बिनीस्नुषा॥१२८॥' इति । जानामि सकलजननयनहारिणी खलु तदीयतनुरुचिधोरणी । कथं सा करतलगता। कथं च पुनर्गता । किं ब्रवीषि-'सखे, चिरादपि तत्संगमायान्विष्यन्त एव तावदुपायाः । पुनरतीते निशीथे निबिडान्धकारमगारपरिसरमधितिष्ठता मया बहिरागता सौदामिनी सरभसं करेण गृहीता' इति । धीरोऽसि । तदा तया किं व्यवसितम् । किं ब्रवीषि-'न किमपि । क्षणमात्रमवस्थिता 'धिक मूर्ख, मुञ्च मुञ्च' इति मामवधूय पुनरगारं प्रविष्टा । अहमपि कुक्कुटकूजितावधि तदागमनाशयैव स्थित्वा तदनन्तर
१. 'प्रहाणे' ख. २. 'तु कुतोऽपि' ख. ३. 'अन्विष्यतैवोपायान्' ख.
For Private and Personal Use Only