________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः ।
३५
लस्य वैचित्र्यम् । अयमिहैवैतावतो वासरांश्रेटीकुटीर कोटरकोण एव नक्तंदिवमप्यतिवाह्य पुनरद्य पलितपरिहते शिरसि वैदिकपद्यामनुरुध्य प्रत्यहं प्रातरुदकोपस्पर्शनमिव नित्यकर्मविधानमिव किमपि कुर्वन्ननतिचिरादेव सदवनीदेव इव संवृत्तो वराहभट्टः' इति । न केवलमयमेव । अस्य भार्यापि । प्रागतीतमिह किं विविच्यतां कामशासनबलेन कारितम् । यौवनापसरणादनन्तरं सर्वथा ननु पतिव्रतैव सा ॥ १२४ ॥ (पुनर्विलोक्य ।) कथमयं प्रत्यासन्नो भूत्वा पञ्चाङ्गं वाचयति । (श्रुत्वा सहासम् ।) सखि, पश्य ।
पञ्चाङ्गमञ्चितकुशेन करेण धृत्वा
पति प्रमृज्य किल पत्ररसेन भूयः ।
आवर्तयन्न सकृदक्षरमेकमेकं
तारादि वाचयति तत्पुनरन्यदन्यत् ॥ १२९ ॥
तेदेनम संबद्धप्रलापिनमालापयन्ती तिष्ठ । साधयामि । ( परिक्रम्य पुरोऽवलोक्य च । कथमत्र मयूरक: । (उपसृत्य ) अपि कुशलं प्रियसखस्य | किं ब्रवीषि - 'कुतः कुशलं भग्रभागधेयानाम्' इति । (सोद्वेगमात्मगतम् ।) कथमयं किमप्यरुंतुदं कथयिष्यति । अथवा परिहासशीलस्य वचोऽस्य न विश्वसनीयं भवति । ( प्रकाशम् ) कथमद्य तवाकुशलम् । किं ब्रवीपि'कुटिलचिकुरा कुन्दस्मेरा कुरङ्गविलोचना
कमलवदना कम्बुग्रीवा कठोरपयोधरा । कनकलतिकाकान्ता कान्ता कराङ्कगता' इति ।
( विहस्य ) सत्यमिदमकुशलं यदतिचिरनिबद्धघोटक ब्रह्मचारिणस्तव कामिनीरत्नं करतललग्नम्' इति । ( सरोषविपादम् ) किं ब्रवीषि - कथमक्त एवाक्षिप्य परिदेवनावसरे परिहसति वयस्यः' इति । तर्हि कथय कथय ।
१. 'किमपि किमपि क. २. 'तदेवमप्यसंबद्ध' ख. ३. 'आलपन्ती' ख. ४. 'अस्य' ख-पुस्तके नास्ति.
For Private and Personal Use Only